This page has been fully proofread twice.

च करादस्य दम्भोळिः, तदेकमायुधविस्रंसनमशनिपतनं चेति द्वेधा बभूव दुःशकुनम् ।
 
अत्रान्तरे[^१] रणहतोभयसैन्ययोध-
निर्भिन्नमण्डलतया तपनस्समन्तात् ।
उद्दामदानवधनुर्गळदुत्प्रबन्ध-
नाराचदारिततया च शनैस्तिरोऽभूत् ॥ ३३ ॥
 
अतिप्रबन्धादिषुजालवृष्टेरपक्रमाच्च द्युमणेरकाण्डे ।
आसीत्तमिस्रा जयदा रिपूणां पचेळिमा भाग्यपरम्परेव ॥ ३४ ॥
 
[commentary]
 
अस्रंसत अपतदिति यत् तदेकमायुधस्य विस्रंसनम् स्खलनं, अशनिपतनं वज्रपातश्चेति द्वेधा द्विप्रकारं, दुश्शकुनं दुर्निमित्तं बभूव । "मार्जार आगतश्शून्यकुम्भो विगतनासिकः । अस्त्रभ्रंशो वज्रपातः प्रयाणे हानिदा मताः ॥" इति शाकुनशास्त्रोक्तेरिति भावः । दैवप्रातिकूल्यात्स्वीयोऽपि परकीयवद्भवतीत्याशयेनाह -- अत्रान्तर इति ॥ अत्रान्तरे अस्मिन् समये, रणे हताः ये उभयसैन्ययोर्योधाः, तैर्निर्भिन्नं मण्डलं यस्य तस्य भावस्तत्ता तया । "द्रावाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥" इति शास्त्रादिति भावः ।समन्तात्परितः, उद्दामाः बलाधिकाः । "उद्दामस्तु बलाधिकः" इति हेमः । ये दानवाः तेषां धनुर्भ्यः, गळन्तः निस्सरन्तः, उत्कृष्टः प्रबन्धः पक्षसम्बन्धो येषां तथाविधा ये नाराचा बाणविशेषाः । "प्रक्ष्वेळनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे" इत्यमरः । तैर्दारिततया छिन्नतया च, तपनः, शनैस्तिरोभूत् अन्तर्दधे । प्रतिकूलविधिः कथं वा मित्रं न विघटयेदिति भावः ।तदानीमसुराणामनुकूलः समयः सम्प्राप्त इत्याह -- अतीति ॥ अकाण्डे असमये, द्युमणेस्सूर्यस्य, अपक्रमादन्तर्धानात् इषुजालस्य बाणसङ्घस्य वृष्टेः । "पत्री रोप इषुर्द्वयोः" इत्यमरः । अतिप्रबन्धादत्यन्ताविच्छेदात्, नक्षत्राणां प्रकाशो नास्तीति भावः । रिपूणां सुरद्विषां, तमिस्रा रात्रिः । "तमिस्रा तामसी रात्रिः" इत्यमरः । पचेळिमा
 
[^१] सूर्यास्तमयमुत्प्रेक्षते कविः हेतूत्प्रेक्षेयम् ॥