2023-08-06 08:46:28 by Bharadwajraki
This page has been fully proofread twice.
वैरिवरूथिनीनां निशैव माभूदिति सन्ततवासरभावाय सहस्रभानुमप्यभितः प्रकाशयितुं, प्रतीक्षमाणोऽपि जयश्रियं[^१] परिशङ्कमानश्चेतसि तापसशापविपाकं किमपि, अळीकनभोविभागसीमाधिपत्यलक्षणां लक्ष्मीमुद्दिश्य [^२]कलहायमानयोरमरासुरवाहिन्योरज्ञानविजृम्भितोपलम्भ[^३]सम्भवमट्टहासमिव परमेष्ठिनो घनस्तनितमाकस्मिकमनभ्र एव दारुणमशृणोत् । प्रहितोऽपि सेनामुखे पवनः पदे पदे यदावेद्यमावेदयितुमाववृते तदेव तस्य प्रतिकूलपवनलक्षणं दुर्निमित्तं परिणेमे । यदस्रंसत
[commentary]
मप्यादिश्य । विजयश्रियं प्रतीक्षमाणोऽपेक्षमाणः । चेतसि, तापसस्य दुर्वाससः, शापस्य विपाकमुद्दिश्य, परिशङ्कमानः बिभ्यत्, किमप्यलीकं अनृतम्। "अलीकं त्वप्रियेऽनृते" इत्यमरः । यन्नभोविभागस्य सीमायाः आधिपत्यं, तल्लक्षणां तत्स्वरूपां लक्ष्मीमुद्दिश्य कलहायमानयोर्युध्यन्त्योः, अमरासुरवाहिन्योः देवासुरसेनयोः । "सेनानद्योस्तु वाहिनी" इत्यमरशेषः । अज्ञानेन विजृम्भितः प्रसक्त उपालम्भः निन्दा, तज्जं तद्भवं उद्भतम् । पाठान्तरे अज्ञानविजृम्भितम् । भावे क्तः । अज्ञानस्य विजृम्भणमित्यर्थः । तस्य उपलम्भः अनुभवस्तस्मात्संभवमुत्पन्नमित्यर्थः । परमेष्ठिनः पितामहस्य, अट्टहासं क्ष्वेळितमिव स्थितम् । अनभ्रे मेघरहिते देशे इति शेषः । काले गगन इति वा । दारुणं भयङ्करं आकस्मिकमज्ञातहेतुकमित्यर्थः । घनस्तनितं घनगर्जनम् । अशृणोत् श्रुतवान् । [^४]शृणोतेः कर्तरि लङ् । महदपराधी को वा भयं न प्राप्नुयादिति भावः । तदानीमिन्द्रस्य दुश्शकुनं जातमित्याह द्वाभ्यां वाक्याभ्याम् ॥ प्रहित इति ॥ सेनामुखे प्रहितोऽपि प्रेरितोऽपि पवनः, पदेपदे प्रतिपदम् । वीप्सायांa द्विर्भावः । आवेद्यं विज्ञाप्यं, आवेदयितुं निवेदयितुं आववृते आजगामेति यत् तदेव पवनागमनमेव, तस्येन्द्रस्य प्रतिकूलपवनलक्षणं दुर्निमित्तं दुश्शकुनं, परिणेमे परिणतं बभूव । प्रतिकूलपवनस्य दुर्निमित्तत्वं शकुनशास्त्रे प्रसिद्धम् । "रजस्वला च विश्वस्ता सम्मुखः पवनस्तथा" इति ॥ अस्रंसतेति ॥ अस्य कराद्दम्भोळिः अशनिः । "दम्भोळिरशनिर्द्वयोः" इत्यमरः ।
[^१] "विजयश्रियम्" -- इति व्याख्यानुसारिपाठः ।
[^२] "शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे" (पा. सू. ३.१.१७3) इत्यनेन क्यङि शानच् ।
[^३] "अज्ञानविजृम्भितोपालम्भजम्" -- इति पाठः व्याख्यायामन्यः व्याख्यातः ॥
[^४] "श्रु=श्रवणे" -- इत्ययं धातुः भौवादिकः । "अथाजन्ताः परस्मैपदिनः" इत्यारभ्य पठितेषु पंचचत्वारिंशत्संख्याकधातुषु एकचत्वारिंशः ॥
a. "नित्यवीप्सयोः" (पा. सू. ८.१.४) इत्यनेनेति भावः ।

[^२] "शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे" (पा. सू. ३.१.१७