This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
वैरिवरूथिनीनां निशैव माभूदिति सन्ततवासरभावाय सहस्रभानु-
मप्यभितः प्रकाशयितुं, प्रतीक्षमाणोऽपि जयश्रियं[^१] परिशङ्कमानश्चेतसि
तापसशापविपाकं किमपि, अळीकनभोविभागसी माधिपत्यलक्षणां
 
"
 
लक्ष्मीमुद्दिश्य '[^२]कलहायमानयोर मरासुरवाहिन्योरज्ञानविजृम्भितोपलम्भ-
'
[^३]सम्भवमट्टहासमिव परमेष्ठिनो घनस्तनित माकस्मिकमनश्भ्र एव दारुण-
मशृणोत् । प्रहितोऽपि सेनामुखे पवनः पदे पदे यदावेद्यमावेदयितु-
माववृते तदेव तस्य प्रतिकूलपवनलक्षणं दुर्निमित्तं परिणेमे । यदस्रंसत

 
[commentary]
 
मप्यादिश्य । विजयश्रियं प्रतीक्षमाणोऽपेक्षमाणः । चेतसि, तापसस्य दुर्वाससः,
शापस्य विपाकमुद्दिश्य, परिशङ्कमान: चिनः बिभ्यत् किमप्यलीकं अनृतम्। " अलीकं
त्वप्रियेऽनृते" इत्यमरः । यन्नभोविभागस्य सीमाया:याः आधिपत्यं, तल्लक्षणां तत्स्व -
रूपां लक्ष्मीमुद्दिश्य कलहायमानयोर्युध्यन्त्योः, अमरासुरवाहिन्योः देवासुरसेनयोः ।
"
"सेनानद्योस्तु वाहिनी " इत्यमरशेषः । अज्ञानेन विजृम्भितः प्रसक्त उपालम्भः
निन्दा, तज्जं तद्भवं उद्भतम् । पाठान्तरे अज्ञान विजृम्भितम् । भावे क्तः ।
अज्ञानस्य विजृम्भणमित्यर्थः । तस्य उपलम्भः अनुभवस्तस्मात्संभवमुत्पन्न मित्यर्थः ।
परमेष्ठिनः पितामहस्य, अट्टहासं क्ष्वेळितमिव स्थितम् । अनत्भ्रे मेघरहिते देशे इति
शेष:षः । काले गगन इति वा । दारुगंणं भयङ्करं आकस्मिकमज्ञातहेतुकमित्यर्थः ।
घनस्तनितं घनगर्जनम् । अशृणोत् श्रुतवान् । [^४]शृणोतेः कर्तरि लङ् । महद-
पराधी को वा भयं न प्राप्नुयादिति भावः । तदानीमिन्द्रस्य दुश्शकुनं जातमित्याह
द्वाभ्यां वाक्याभ्याम् ॥ प्रहित इति ॥ सेनामुखे प्रहितोऽपि प्रेरितोऽपि पवनः,
पदेपदे प्रतिपदम् । वीप्सायांa द्विर्भाव:वः । आवेद्यं विज्ञाप्यं, आवेदयितुं निवेदयितुं
आववृते आजगामेति यत् तदेव पवनागमनमेव, तस्येन्द्रस्य प्रतिकूलपवनलक्षणं
दुर्निमित्तं दुश्शकुनं, परिणेमे परिणतं बभूव । प्रतिकूलपवनस्य दुर्निमित्तत्वं
शकुनशास्त्रे प्रसिद्धम् । "रजस्वला च विश्वस्ता सम्मुखः पवनस्तथा " इति ॥
अस्रंसतेति ॥ अस्य कराद्दम्भोळि:ळिः अशनिः । "दम्भोळिरशनिर्द्वयोः" इत्य र ।
 
"
 
1. "
मरः ।
 
[^१] "
विजयत्श्रियम्" -- इति व्याख्यानुसारिपाठः ।
 
2. "

 
[^२] "
शब्द वैरकलहाभ्रकण्व मेघेभ्यः करणे" (पा. सू. ३.१.१७3.1-17) इत्यनेन
क्यङि शानच् ।
 
3.

 
[^३]
"अज्ञानविजृम्भितोपालम्भजम्" -- इति पाठः व्याख्यायामन्यः व्याख्यातः ॥
4.

 
[^४]
"श्रु=श्रवणे" -- इत्ययं धातुः भौवादिकः । "अथाजन्ताः परस्मैपदिन: नः" इत्या.
रम्
रभ्य पठितेषु पंचचत्वारिंशत्संख्याकधातुषु एकचत्वारिंशः ॥
 
"

 
a.
 
"नित्यगीवीप्सयोः" (पा. सू. 8-1-4८.१.४) इत्यनेनेति भावः ।