2023-08-06 08:41:23 by Bharadwajraki
This page has been fully proofread twice.
आवेष्टयन्तः करेष्वान्त्रमालिकाः, परिक्रामन्तो मुण्डमण्डलेषु, परिस्खलन्तः कबन्धेषु, अपश्यन्तः पुत्रानपि रणे हतान्, अतृप्यन्तो यूथंयूथमपि निपात्य प्रतिभटान्, अप्रतिभटा विबुधभटाः साफल्यमनैषुरक्षिसाहस्रममरपतेः । आदिश्य च, ततः शतमन्युः अन्तकमग्रतः सेनामुखे, पार्श्वयोरस्य पवनपावकौ, पृष्ठतः स्वस्य पुण्यजनेश्वरं, अन्तिक एव धनदमाहवशूरान् सभाजयितुं, अध्वनि विद्विषामपाम्पतिं, शिबिरे आयुधक्षतान् भिषजितुमाश्विनेयौ, निशीथिनीयोधिनीनां
[commentary]
ल्मस्तु" इत्यमरः । आवेष्टयन्तः आवेष्टनं कुर्वन्तः । मुण्डानां करोटीनां मण्डलेषु । "शिरोऽस्थ्नि तु करोटिः स्त्री कपालं मुण्डमस्त्रियाम्" इत्यमरभास्करौ । परिक्रामन्तः चलन्तः। कबन्धेषु अपमूर्धकळेबरेषु । "कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकळेबरम्" इत्यमरः । रणेषु हतान् पुत्रानप्यपश्यन्तः । प्रतिभटान् प्रतिपक्षयोघान्, यूथंयूथं सङ्घंसङ्घं । वीप्सायां द्विर्भावःa । निपात्य । अप्रतिभटाः अप्रतिद्वन्द्विनः, विबुधभटाः, अमरपतेः अक्षिसाहस्रं, साफल्यं सार्थक्यं, अनैषुः निन्युः ।
नयतेर्दुहादित्वात्[^१] द्विकर्मकत्वम् । नयतेः [^२]कर्तरि लुङ् । नितान्तमुपकृतः को वा शूरः भर्तृसन्निधौ पराक्रमं न प्रकाशयेदिति भावः । सेनासन्निवेशमेव वर्णयति ॥ आदिश्येति ॥ ततश्शतमन्युरिन्द्रः सेनामुखे नासीरे, अग्रतः, अन्तकम् । अस्यान्तकस्य सेनामुखस्य वा । पार्श्वयोः पवनपावकौ वाय्वग्नी । स्वस्य पृष्ठतः पृष्ठभागे च, पुण्यजनेश्वरं निर्ऋतिम् । अन्तिके समीप एव, आहवशूरान्सभाजयितुं बहुमन्तुं, धनदम् । विद्विषां शत्रूणाम् । "द्विविपक्षाहितामित्रदस्युशात्रवशत्रवः" इत्यमरः। अध्वनि, अपाम्पतिं वरुणं । "प्रचेता वरुणः पाशी यादसाम्पतिरप्पतिः" इत्यमरः । शिबिरे सेनासन्निवेशे । आयुधक्षतान् भिषजितुं चिकित्सितुमाश्विनेयावाश्विनौ । निशीथिन्यां योद्धुं शीलं यासां तासां वैरिवरूथिनीनां वैरिसेनानाम् । निशैव माभूदिति, सन्ततं वासरस्य अह्नः, भावाय वर्तनाय । "भावस्सत्तास्वभावयोः " इति नानार्थमाला । अभितस्सर्वतः प्रकाशयितुं सहस्रभानु-
a. "नित्यवीप्सयोः" (पा. सू. ८.१.४) इत्यनेनेति भावः ।
[^१] 'दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥" इति द्वादश दुहादयः । चत्वारो न्यादयश्च । सर्वे षोडश धातवः द्विकर्मकाः इत्यर्थः ॥
[^२] "णीञ्-प्रापणे --" इत्ययं धातुः भौवादिकः, "अथाजन्ता उभयपदिनः" इत्यारभ्य पठितेषु पंचसु धातुषु अन्तिमः ॥