2023-07-16 05:43:17 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमा श्वासः
  
  
  
   
  
  
  
  ५६
  
  
  
  आवेष्टयन्तः करेष्वान्त्रमालिकाः, परिक्रामन्तो मुण्डमण्डलेषु, परि-
  
  
  
  स्खलन्तः कबन्धेषु, अपश्यन्तः पुत्रानपि रणे हतान्, अतृप्यन्तो
  
  
  
   यूथंयूथमपि निपात्य प्रतिभटान्, अप्रतिभटा विबुधभटा:टाः साफल्य-
  
  
  
  मनमनैषुरक्षिसाहस्र ममरपतेः । आदिश्य च, ततः शतमन्युः अन्तकमग्रतः
  
  
  
   सेनामुखे, पार्श्वयोरस्य पवनपावकौ, पृष्ठतः स्वस्य पुण्यजनेश्वरं,
  
  
  
   अन्तिक एव धनद माहवशूरान् सभाजयितुं, अध्वनि विद्विषामपाम्पतिं,
  
  
  
   शिबिरे आयुधक्षतान् भिषजितुमाश्विनेयौ, निशीथिनीयोधिनीनां
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  ल्मस्तु" इत्यमरः । आवेष्टयन्तः आवेष्टनं कुर्वन्तः । मुण्डानां करोटीनां मण्डलेषु ।
  
  
  
   "शिरोऽस्थिनथ्नि तु करोटिः स्त्री कपालं मुण्डमस्त्रियाम्" इत्यमरभास्करौ । परि-
  
  
  
  क्रामन्तः चलन्तः। कबन्धेषु अपमूर्धकळेचबरेषु । "कबन्धोऽस्त्री क्रियायुक्तमपमूर्ध-
  
  
  
  कळेबरम्" इत्यमरः । रणेषु हतान् पुत्रानप्यपश्यन्तः । प्रतिभटान् प्रतिपक्षयोघान्,
  
  
  
   यूथथंयूथथं सङ्घघंसङ्घघं । वीप्सायां द्विर्भाव:वःa । निपात्य । अप्रतिभटाः अप्रति-
  
  
  
  द्वन्द्विननः, विबुधभटाः, अमरपतेः अक्षिसाहस्रं, साफल्यं सार्थक्यं, अनैषुः निन्युः ।
  
  
  
  
  
  
  
  नयतेर्दुहादित्वात् '[^१] द्विकर्मकत्वम् । नयतेः '[^२]कर्तरि लुङ् । नितान्तमुपकृतः को
  
  
  
   वा शूर:रः भर्तृसन्निधौ पराक्रमं न प्रकाशयेदिति भावः । सेनासन्निवेशमेव
  
  
  
   वर्णयति ॥ आदिश्येति ॥ ततश्शतमन्युरिन्द्रः सेनामुखे नासीरे, अग्रतः,
  
  
  
   अन्तकम् । अस्यान्तकस्य सेनामुखस्य वा । पार्श्वयोः पवनपावकोकौ वाय्वन्ग्नी ।
  
  
  
   स्वस्य पृष्ठतः पृष्ठभागे च, पुण्यजनेश्वरं निर्ऋतिम् । अन्तिके समीप एव, आहवशूरान्
  
  
  
  सभाजयितुं बहुमन्तुं, धनदम् । विद्विषां शत्रूणाम् । "द्विविपक्षाहितामित्रदस्युशात्र-
  
  
  
  वशत्रवः" इत्यमरः। अध्वनि, अपाम्पतिं वरुणं । "प्रचेता वरुण:णः पाशी यादसाम्पति-
  
  
  
  रप्पतिः" इत्यमरः । शिबिरे सेनासन्निवेशे । आयुधक्षतान् भिषजितुं चिकित्सितु-
  
  
  
  माश्विनेयावाश्विनौ । निशीथिन्यां योदद्धुं शीलं यासां तासां वैरिवरूथिनीनां वैरि-
  
  
  
  सेनानाम् । निशैव माभूदिति, सन्ततं वासरस्य अह्वःनः, भावाय वर्तनाय । "भाव -
  
  
  
  स्सत्ता स्वभावयोः " इति नानार्थमाला । अभितस्सर्वतः प्रकाशयितुं सहस्रभानु-
  
  
  
  59
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a. "नित्यवीप्सयो: योः" (पा. सू. 8-14८.१.४) इत्यनेनेति भावः ।
  
  
  
   
  
  
  
  1,
  
  
  
   
  
  
  
  [^१] 'दुह्याच्
  
  
  
  पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं
  
  
  
   तथा स्यान्नीहृकृष्वहाम् ॥" इति द्वादश दुहादयः । चत्वारो न्यादयश्च । सर्वे षोडश धातवः
  
  
  
   द्विकर्मकाः इत्यर्थः ॥
  
  
  
   
  
  
  
  66
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] "णीञ्-प्रापणे— --" इत्ययं धातुः भौवादिकः, " अथाजन्ता उभयप दिनः"
  
  
  
   इत्यारभ्य पठितेषु पंचसु धातुषु अन्तिमः ॥