This page has not been fully proofread.

प्रथमा श्वासः
 
५६
आवेष्टयन्तः करेष्वान्त्रमालिकाः, परिक्रामन्तो मुण्डमण्डलेषु, परि-
स्खलन्तः कबन्धेषु, अपश्यन्तः पुत्रानपि रणे हतान्, अतृप्यन्तो
यूथंयूथमपि निपात्य प्रतिभटान्, अप्रतिभटा विबुधभटा: साफल्य-
मनषुरक्षिसाहस्र ममरपतेः । आदिश्य च, ततः शतमन्युः अन्तकमग्रतः
सेनामुखे, पार्श्वयोरस्य पवनपावकौ, पृष्ठतः स्वस्य पुण्यजनेश्वरं,
अन्तिक एव धनद माहवशूरान् सभाजयितुं, अध्वनि विद्विषामपाम्पतिं,
शिबिरे आयुधक्षतान् भिषजितुमाश्विनेयौ, निशीथिनीयोधिनीनां
ल्मस्तु" इत्यमरः । आवेष्टयन्तः आवेष्टनं कुर्वन्तः । मुण्डानां करोटीनां मण्डलेषु ।
"शिरोऽस्थिन तु करोटिः स्त्री कपालं मुण्डमस्त्रियाम्" इत्यमरभास्करौ। परि-
क्रामन्तः चलन्तः। कबन्धेषु अपमूर्धकळेचरेषु । "कबन्धोऽस्त्री क्रियायुक्तमपमूर्ध-
कळेबरम्" इत्यमरः । रणेषु हतान् पुत्रानप्यपश्यन्तः । प्रतिभटान् प्रतिपक्षयोघान्,
यूथयूथ सङ्घसङ्घ । वीप्सायां द्विर्भाव: । निपात्य । अप्रतिभटाः अप्रति-
द्वन्द्विन, विबुधभटाः, अमरपतेः अक्षिसाहस्रं, साफल्यं सार्थक्यं, अनैषुः निन्युः ।
नयतेर्दुहादित्वात् ' द्विकर्मकत्वम् । नयतेः 'कर्तरि लुङ् । नितान्तमुपकृतः को
वा शूर: भर्तृसन्निधौ पराक्रमं न प्रकाशयेदिति भावः । सेनासन्निवेशमेव
वर्णयति ॥ आदिश्येति ॥ ततश्शतमन्युरिन्द्रः सेनामुखे नासीरे, अग्रतः,
अन्तकम् । अस्यान्तकस्य सेनामुखस्य वा । पार्श्वयोः पवनपावको वाय्वन्नी ।
स्वस्य पृष्ठतः पृष्ठभागे च, पुण्यजनेश्वरं निर्ऋतिम् । अन्तिके समीप एव, आहवशूरान्
सभाजयितुं बहुमन्तुं, धनदम्। विद्विषां शत्रूणाम् । "द्विविपक्षाहितामित्रदस्युशात्र-
वशत्रवः" इत्यमरः। अध्वनि, अपाम्पतिं वरुणं । "प्रचेता वरुण: पाशी यादसाम्पति-
रप्पतिः" इत्यमरः । शिबिरे सेनासन्निवेशे । आयुधक्षतान् भिषजितुं चिकित्सितु-
माश्विनेयावाश्विनौ । निशीथिन्यां योदधुं शीलं यासां तासां वैरिवरूथिनीनां वैरि-
सेनानाम् । निशैव माभूदिति, सन्ततं वासरस्य अह्वः, भावाय वर्तनाय । "भाव -
सत्ता स्वभावयोः " इति नानार्थमाला । अभितस्सर्वतः प्रकाशयितुं सहस्रभानु-
59
 
a. "नित्यवीप्सयो: " (पा. सू. 8-14) इत्यनेनेति भावः ।
 
1, 'दुह्याच्
पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं
तथा स्यान्नीहृकृष्वहाम् ॥" इति द्वादश दुहादयः । चत्वारो न्यादयश्च । सर्वे षोडश धातवः
द्विकर्मकाः इत्यर्थः ॥
 
66
 
2. "णीञ्-प्रापणे—" इत्ययं धातुः भौवादिकः, " अथाजन्ता उभयप दिनः"
इत्यारभ्य पठितेषु पंच धातुषु अन्तिमः ॥