2023-08-05 10:16:08 by Bharadwajraki
This page has been fully proofread twice.
इव कदळीवनेषु, दावानला इव जीर्णशाल्मलीगुल्मेषु, निश्शङ्कमवगाहमाना दानवेषु, प्रहरन्तः परश्वधैः, कृन्तन्तः कुन्तैः, निपातयन्तः कृपाणिकाभिः, अभिघ्नन्तश्शतघ्नीभिः, खण्डयन्तो भिण्डिपालैः, अवकिरन्तश्शरजालैः, अपविध्यन्तश्शक्तिशूलैः, क्षिण्वन्तः क्षेपणिकाभिः, अवबध्नन्तः पाशैः, अभिमृद्गन्तः[^१] परिघैः, आकर्षन्तो लाङ्गःलैः, आविध्यन्तो मुसलैः, अपहरन्तो जयध्वजान्, अवभिन्दन्तो वारवाणान्, विच्छिन्दन्तो धनुर्गुणान्, विस्रंसयन्तस्सारथीन्, प्रवर्तयन्तो रक्तवाहिनीः, परितोषयन्तः कटपूतनाः, लिम्पन्तश्शरीराणि रक्तधाराभिः,
[commentary]
इत्यमरः । कदळीनां वनेषु दन्तावळा मदगजा इव । जीर्णशाल्मली जरत्किम्पाकः तस्या गुल्मेषु कक्षेषु । "पिच्छिला पूरणी मोचा स्थिरायुश्शाल्मली द्वयोः" इत्यमरः । दवानला इव । "दवो वनहुताशनः" इत्यमरः । दानवेषु निश्शङ्कं निर्भयं यथा तथा । अवगाहमानाः पराक्रममाणाः । परश्वधैः परशुभिः प्रहरन्तः । कुन्तैः कृन्तन्तः छिन्दन्तः । कृपाणिकाभिः असिभिः निपातयन्तः । शतघ्नीभिः लोहयन्त्रैः अभिघ्नन्तः । भिण्डिपालैः दात्रैः खण्डयन्तः शकलयन्तः । शरजालैरवकिरन्तः प्रविक्षिपन्तः । शक्तिशूलैरपविध्यन्तः विनिघ्नन्तः। क्षेपणिकाभिः नौकादण्डैः । "नौकादण्डः क्षेपणी स्यात्" इत्यमरः । यद्वा क्षेपणिकाभिः लोष्टप्रहरणोपयोगिभिः जालभेदैः । "नौकादण्डे जालभेदे क्षेपणी" इति नानार्थरत्नमाला । क्षिण्वन्तः विनाशयन्तः । पाशैः रज्जुभिः अवबध्नन्तः । परिघैः
अपमृद्गन्तः घातयन्तः । लाङ्गलैः हलैराकर्षन्तः । मुसलैराविध्यन्तः अभिघ्नन्तः । जयध्वजानपहरन्तः । वारवाणान् कञ्चुकान् । "कञ्चुको वारवाणोऽस्त्री" इत्यमरः । अवभिन्दन्तः विदारयन्तः । धनुषां गुणान् मौर्वीः । "मौर्वीज्याशिञ्जिनीगुणाः" इत्यमरः । विच्छिन्दन्तः । सारथीन् विस्रंसयन्तः अधः पातयन्तः । रक्तवाहिनीः रक्तनदीः, प्रवर्तयन्तः उत्पादयन्तः । कटपूतनाः पिशाचविशेषान् । "भैरवी शाकिनी डाकिन्यस्रपा कटपूतना" इति हलायुधः । यद्वा कटः शवः तद्भक्षकाश्च ताः पूतनाश्चेति [^२]शाकपार्थिवादिवत्समासः । "श्रोण्यां भृशे कलिङ्गे गजगण्डे शपथे शवे च कटः । पूतना राक्षसी पथ्या" इति च रत्नमाला। परितोषयन्तस्सन्तोषयन्तः । रक्तधाराभिः शरीराणि लिम्पन्तः । कण्ठेषु ।
करेष्वित्येकपाठः । आन्त्राण्येव बृहन्नाड्य एव मालिकाः । "आन्त्रं पुरीतद्गु-
[^१] "अपमृद्नन्तः" -- व्याख्यानुसारी पाठः ।
[^२] भक्षक पदलोपात् शाकपार्थिवादिः ।