This page has been fully proofread twice.

इव कदळीवनेषु, दावानला इव जीर्णशाल्मलीगुल्मेषु, निश्शङ्कमवगाहमाना दानवेषु, प्रहरन्तः परश्वधैः, कृन्तन्तः कुन्तैः, निपातयन्तः कृपाणिकाभिः, अभिघ्नन्तश्शतघ्नीभिः, खण्डयन्तो भिण्डिपालैः, अवकिरन्तश्शरजालैः, अपविध्यन्तश्शक्तिशूलैः, क्षिण्वन्तः क्षेपणिकाभिः, अवबध्नन्तः पाशैः, अभिमृद्गन्तः[^१] परिघैः, आकर्षन्तो लाङ्गःलैः, आविध्यन्तो मुसलैः, अपहरन्तो जयध्वजान्, अवभिन्दन्तो वारवाणान्, विच्छिन्दन्तो धनुर्गुणान्, विस्रंसयन्तस्सारथीन्, प्रवर्तयन्तो रक्तवाहिनीः, परितोषयन्तः कटपूतनाः, लिम्पन्तश्शरीराणि रक्तधाराभिः,
 
[Ccommentary]
 
इत्यमरः । कदळीनां वनेषु दन्तावळा मदगजा इव । जीर्णशाल्मली जरत्किम्पाकः तस्या गुल्मेषु कक्षेषु । "पिच्छिला पूरणी मोचा स्थिरायुश्शाल्मली द्वयोः" इत्यमरः । दवानला इव । "दवो वनहुताशनः" इत्यमरः । दानवेषु निश्शङ्कं निर्भयं यथा तथा । अवगाहमानाः पराक्रममाणाः । परश्वधैः परशुभिः प्रहरन्तः । कुन्तैः कृन्तन्तः छिन्दन्तः । कृपाणिकाभिः असिभिः निपातयन्तः । शतघ्नीभिः लोहयन्त्रैः अभिघ्नन्तः । भिण्डिपालैः दात्रैः खण्डयन्तः शकलयन्तः । शरजालैरवकिरन्तः प्रविक्षिपन्तः । शक्तिशूलैरपविध्यन्तः विनिघ्नन्तः। क्षेपणिकाभिः नौकादण्डैः । "नौकादण्डः क्षेपणी स्यात्" इत्यमरः । यद्वा क्षेपणिकाभिः लोष्टप्रहरणोपयोगिभिः जालभेदैः । "नौकादण्डे जालभेदे क्षेपणी" इति नानार्थरत्नमाला । क्षिण्वन्तः विनाशयन्तः । पाशैः रज्जुभिः अवबघ्ध्नन्तः । परिघैः
अपमृद्गन्तः घातयन्तः । लाङ्गलैः हलैराकर्षन्तः । मुसलैराविध्यन्तः अभिघ्नन्तः । जयध्वजानपहरन्तः । वारवाणान् कञ्चुकान् । "कञ्चुको वारवाणोऽस्त्री" इत्यमरः । अवभिन्दन्तः विदारयन्तः । धनुषां गुणान् मौर्वीः । "मौर्वीज्याशिञ्जिनीगुणाः" इत्यमरः । विच्छिन्दन्तः । सारथीन् विस्रंसयन्तः अधः पातयन्तः । रक्तवाहिनीः रक्तनदीः, प्रवर्तयन्तः उत्पादयन्तः । कटपूतनाः पिशाचविशेषान् । "भैरवी शाकिनी डाकिन्यस्रपा कटपूतना" इति हलायुधः । यद्वा कटः शवः तद्भक्षकाश्च ताः पूतनाश्चेति [^२]शाकपार्थिवादिवत्समासः । "श्रोण्यां भृशे कलिङ्गे गजगण्डे शपथे शवे च कटः । पूतना राक्षसी पथ्या" इति च रत्नमाला। परितोषयन्तस्सन्तोषयन्तः । रक्तधाराभिः शरीराणि लिम्पन्तः । कण्ठेषु ।
करेष्वित्येकपाठः । आन्त्राण्येव बृहन्नाड्य एव मालिकाः । "आन्त्रं पुरीतद्गु-
 
[^१] "अपमृद्नन्तः" -- व्याख्यानुसारी पाठः ।
 
[^२] भक्षक पदलोपात् शाकपार्थिवादिः ।