2023-07-13 11:07:42 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  इव कदळीवनेषु, दावानला इव जीर्णशाल्मलीगुल्मेषु, निश्शङ्कमवगाह-
  
  
  
  माना दानवेषु, प्रहरन्तः परश्वधैः कृन्तन्तः कुन्तैः, निपातयन्तः
  
  
  
   कृपाणिकाभिः, अभिघ्नन्तश्शतघ्नीभिः, खण्डयन्तो भिण्डिपालैः, अव-
  
  
  
  किरन्तश्शरजालैः, अपविध्यन्तश्शक्तिशूलैः क्षिण्वन्तः क्षेपणिकाभिः,
  
  
  
   अवबभध्नन्तः पाशैः, अभिमृद्रन्तः'गन्तः[^१] परिघैः, आकर्षन्तो लाङ्गःलैः, आवि-
  
  
  
  ध्यन्तो मुसलैः, अपहरन्तो जयध्वजान्, अवभिन्दन्तो वारवाणान्,
  
  
  
   विच्छिन्दन्तो धनुर्गुणान्, विस्रंसयन्तस्सारथीन्, प्रवर्तयन्तो रक्त-
  
  
  
  वाहिनी:नीः, परितोषयन्तः कटपूतनाः, लिम्पन्तश्शरीराणि रक्तधाराभिः,
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  इत्यमरः । कदळीनां वनेषु दन्तावळा मदगजा इव । जीर्णशाल्मली जरत्कि-
  
  
  
  म्पाकः तस्या गुल्मेषु कक्षेषु । "पिच्छिला पूरणी मोचा स्थिरायुश्शाल्मली
  
  
  
   द्वयोः" इत्यमरः । दवानला इव । "दवो वनहुताशनः" इत्यमरः । दानवेषु
  
  
  
   निश्शङ्कं निर्भयं यथा तथा । अवगाहमानाः पराक्रममाणाः । परश्ववैः
  
  
  
  धैः परशुभि:भिः प्रहरन्तः । कुन्तै:तैः कृन्तन्तः छिन्दन्तः । कृपाणिकाभिः असिभिः निपात-
  
  
  
  यन्तः । शतघ्नीभि:भिः लोहयन्त्रैः अभिन्घ्नन्तः । भिण्डिपालैः दात्रैः खण्डयन्तः शकल-
  
  
  
  यन्तःयन्तः । शरजालैरवकिरन्तः प्रविक्षिपन्तः । शक्तिशूलैरप विध्यन्तः विनिघ्नन्तः। क्षेप-
  
  
  
  णिकाभि: नौकादण्डै: । "नौकादण्डः क्षेपणी स्यात्" इत्यमरः । यद्वा क्षेपणिकाभिः
  
  
  
   नौकादण्डैः । "नौकादण्डः क्षेपणी स्यात्" इत्यमरः । यद्वा क्षेपणिकाभिः लोष्टप्रहरणोपयोगिभि:भिः जालभेदैः । "नौकादण्डे जालभेदे क्षेपणी" इति नानार्थ-
  
  
  
  रत्नमाला। क्षिण्वन्तः विनाशयन्तः । पाशैः रज्जुभिः अवबघ्नन्तः । परिघैः
  
  
  
  
  
  
  
  अपमृद्गन्तः घातयन्तः । लाङ्गलैः हलैराकर्षन्तः । मुसलैराविध्यन्तः अभिघ्नन्तः ।
  
  
  
   जयध्वजानपहरन्तः । वारवाणान् कञ्चुकान् । "कञ्चुको वारवाणोऽस्त्री" इत्यमरः ।
  
  
  
   अवभिन्दन्तः विदारयन्तः । धनुषां गुणान् मौर्वीः । "मौर्वीज्याशिञ्जिनी-
  
  
  
  गुणा: णाः" इत्यमरः । विच्छिन्दन्तः । सारथीन् विस्रंसयन्तः अधः पातयन्तः ।
  
  
  
   रक्तवाहिनी: रक्तनदी:नीः रक्तनदीः, प्रवर्तयन्तः उत्पादयन्तः । कटपूतनाः पिशाच-
  
  
  
  विशेषान् । "भैरवी शाकिनी डाकिन्यत्स्रपा कटपूतना" इति हलायुधः । यद्वा
  
  
  
  कट: शव: कटः शवः तद्भक्षकाश्च ताः पूतनाश्चेति '[^२]शाकपार्थिवादिवत्समासः ।
  
  
  
  "  "श्रोण्यां
  
  
  
   भृशे कलिङ्गे गजगण्डे शपथे शवे च कटः । पूतना राक्षसी पथ्या " इति च
  
  
  
   रत्नमाला। परितोषयन्तस्सन्तोषयन्तः । रक्तधाराभिः शरीराणि लिम्पन्तः । कण्ठेषु ।
  
  
  
  
  
  
  
  करेष्वित्येकपाठः । आन्त्राण्येव बृहन्नाड्य एव मालिकाः । "आन्त्ररं पुरीतद्गु-
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] "अपमृदूनन्तः" —द्नन्तः" -- व्याख्यानुसारी पाठः ।
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] भक्षक पदलोपात् शाकपार्थिवादिः ।