2023-06-05 16:39:45 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
"
इव कदळीवनेषु, दावानला इव जीर्णशाल्मलीगुल्मेषु, निश्शङ्कमवगाह-
माना दानवेषु, प्रहरन्तः परश्वधैः कृन्तन्तः कुन्तैः, निपातयन्तः
कृपाणिकाभिः, अभिघ्नन्तश्शतघ्नीभिः, खण्डयन्तो भिण्डिपालैः, अव-
किरन्तश्शरजालैः, अपविध्यन्तश्शक्तिशूलैः क्षिण्वन्तः क्षेपणिकाभिः,
अवबभन्तः पाशैः, अभिमृद्रन्तः' परिघैः, आकर्षन्तो लाङ्गः, आवि-
ध्यन्तो मुसलैः, अपहरन्तो जयध्वजान्, अवभिन्दन्तो वारवाणान्,
विच्छिन्दन्तो धनुर्गुणान्, विस्रंसयन्तस्सारथीन्, प्रवर्तयन्तो रक्त-
वाहिनी:, परितोषयन्तः कटपूतनाः, लिम्पन्तश्शरीराणि रक्तधाराभिः,
इत्यमरः । कदळीनां वनेषु दन्तावळा मदगजा इव । जीर्णशाल्मली जरत्कि-
म्पाकः तस्या गुल्मेषु कक्षेषु । "पिच्छिला पूरणी मोचा स्थिरायुश्शाल्मली
द्वयोः" इत्यमरः । दवानला इव । "दवो वनहुताशनः" इत्यमरः । दानवेषु
निश्शङ्कं निर्भयं यथा तथा । अवगाहमानाः पराक्रममाणाः । परश्ववैः
परशुभि: प्रहरन्तः । कुन्तै: कृन्तन्तः छिन्दन्तः । कृपाणिकाभिः असिभिः निपात-
यन्तः । शतघ्नीभि: लोहयन्त्रैः अभिन्नन्तः । भिण्डिपालैः दात्रैः खण्डयन्तः शकल-
यन्तः। शरजालैरवकिरन्तः प्रविक्षिपन्तः । शक्तिशूलैरप विध्यन्तः विनिघ्नन्तः। क्षेप-
णिकाभि: नौकादण्डै: । "नौकादण्डः क्षेपणी स्यात्" इत्यमरः । यद्वा क्षेपणिकाभिः
लोष्टप्रहरणोपयोगिभि: जालभेदैः । "नौकादण्डे जालभेदे क्षेपणी" इति नानार्थ-
रत्नमाला। क्षिण्वन्तः विनाशयन्तः । पाशैः रज्जुभिः अवबघ्नन्तः। परिघैः
अपमृगन्तः घातयन्तः । लाङ्गलैः हलैराकर्षन्तः । मुसलैराविध्यन्तः अभिघ्नन्तः ।
जयध्वजानपहरन्तः । वारवाणान् कञ्चुकान् । "कञ्चुको वारवाणोऽस्त्री" इत्यमरः ।
अवभिन्दन्तः विदारयन्तः । धनुषां गुणान् मौर्वीः । "मौर्वीज्याशिञ्जिनी-
गुणा: " इत्यमरः । विच्छिन्दन्तः । सारथीन् विस्रंसयन्तः अधः पातयन्तः ।
रक्तवाहिनी: रक्तनदी:, प्रवर्तयन्तः उत्पादयन्तः । कटपूतनाः पिशाच-
विशेषान् । "भैरवी शाकिनी डाकिन्यत्रपा कटपूतना" इति हलायुधः । यद्वा
कट: शव: तद्भक्षकाश्च ताः पूतनाश्चेति 'शाकपार्थिवादिवत्समासः ।
" श्रोण्यां
भृशे कलिङ्गे गजगण्डे शपथे शवे च कटः । पूतना राक्षसी पथ्या " इति च
रत्नमाला। परितोषयन्तस्सन्तोषयन्तः । रक्तधाराभिः शरीराणि लिम्पन्तः । कण्ठेषु ।
करेष्वित्येकपाठः । आन्त्राण्येव बृहन्नाड्य एव मालिकाः । "आन्त्र पुरीतद्गु-
1. "अपमृदूनन्तः" — व्याख्यानुसारी पाठः ।
2. भक्षक पदलोपात् शाकपार्थिवादिः ।