2023-08-05 10:09:36 by Bharadwajraki
This page has been fully proofread twice.
भर्तृविमाननाः कादाचित्कीः पुत्रदारपरिभवानिवa, मनागप्यनपेक्ष्य जयश्रियमनुपतन्तीमिव मित्रवरूथिनीं, होष्यन्तश्शरानलार्चिषि शरीराणि, चेष्यन्तश्शरदिन्दुसुन्दराणि यशःकन्दळानि, महिषानिव मतङ्गजान्, सारमेयानिव सैन्धवान्, पांसुकणानिव पदातिगणान्, मशकानिव महारथिकान्, कुसुमविहारानिव कुन्ततोमरमुद्गरप्रहारान्, पटवासवृष्टिमिव बाणवृष्टिमपि मन्यमानाः, हन्यमाना अपि हर्षाट्टहासमुखराः, नखरायुधा इव हरिणार्भकेषु, नागान्तका इव राजिलेषु, दन्तावळा
[commentary]
ऋणापनयनं, तस्य सम्पादनं, तस्य अवसरः समयः, तस्य लाभः प्राप्तिः, तेन सम्भावितः प्राप्तः, उत्साहः सामर्थ्यं, येषां तेषां भावस्तत्ता तया । विमतानां विद्विषां बलानीव स्वजीवितान्यपि तृणीकृत्य तृणं मत्वेति तात्पर्यार्थः । समराद्भयं च, विकोशानि विगतावरणकानि, शस्त्रास्त्रमण्डलानीव, विधूय
प्रकम्प्य । कादाचित्कीः भर्तुरिन्द्राद्विमानना असम्भावनाश्च पुत्रदारैः परिभवानिव विस्मृत्य। अनुपतन्तीं आगच्छन्तीं मित्रवरूथिनीमिव, जयश्रियं मनागप्यनपेक्ष्य । शरानलस्यार्चिषि ज्वालायां, शरीराणि होष्यन्तः होमं करिष्यन्तः । शरदिन्दुरिव सुन्दराणि, यशसां कन्दळानि नवाङ्कुराणीत्यर्थः । "कदली वृक्षमृगयोः कन्दळं तु नवाङ्कुरः" इति नानार्थरत्नमाला । चेष्यन्तः पोक्ष्यन्तः, वर्धयिष्यन्त इत्येकः पाठः । मतङ्गजान् महिषानिव । सैन्धवान् हयान् । "हयसैन्धवसप्तयः" इत्यमरः । सारमेयानि शुनकानिव । "कौलटेयस्सारमेयः कुक्कुरो मृगदंशकः" इत्यमरः । पदातीनां गणान् पांसूनां कणानिव । "लवलेशकणाणवः" इत्यमरः । महारथिकान् । "आत्मानं सारथिं चाश्वान् रक्षन्युध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुर्युद्धकोविदाः ॥" मशकानिव । कुन्तैः मुद्गरैः तोमरैश्च प्रहारान् ताडनानि कुसुमानां विहारान् विकिरणानीव । बाणानां वृष्टिं पटवासस्य गण्डचूर्णस्य वृष्टिमिव । "पिष्टातः पटवासकः" इत्यमरः । मन्यमानाः मन्वानाः । हन्यमाना अपि ताड्यमाना अपि । हर्षाट्टहासेन मुखराः । हरिणार्भकेषु मृगशिशुषु नखरायुधा इव सिंहा इव । "सिंहस्तु नखरायुधः" इति यादवः । राजिलेषु जलसर्पेषु । "अलगर्दो जलव्याळस्समौ
राजिलडुण्डुभौ" इत्यमरः । नागान्तका इव गरुडा इव । "नागान्तको विष्णुरथः"
a. चतस्रोऽपि समुच्चयोपमाः ध्येयाः ।