2023-07-13 10:56:52 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  ५३
  
  
  
   
  
  
  
  भर्तृविमाननाः कादाचित्कीः पुत्रदारपरिभवानिव'a, मनागप्यनपेक्ष्य जय-
  
  
  
  श्रियमनुपतन्तीमिव मित्रवरूथिनीं, होष्यन्तश्शरानलार्चिषि शरीराणि,
  
  
  
   चेष्यन्तश्शरदिन्दुसुन्दराणि यशःकन्दळानि, महिषानिव मतङ्गजान्,
  
  
  
   सारमेयानिव सैन्धवान्, पांसुकणानिव पदातिगणान्, मशकानिव
  
  
  
   महारथिकान्, कुसुमविहारानिव कुन्ततोमरमुद्गरप्रहारान्, पटवासवृष्टि-
  
  
  
  मिव बाणवृष्टिमपि मन्यमानाः, हन्यमाना अपि हर्षाट्टहासमुखराः,
  
  
  
   नखरायुधा इव हरिणार्भकेषु, नागान्तका इव राजिलेषु, दन्तावळा
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  ऋणापनयनं, तस्य सम्पादनं, तस्य अवसर: समय:रः समयः, तस्य लाभ:भः प्राप्तिः,
  
  
  
   तेन सम्भावितः प्राप्तः, उत्साह:हः सामर्थ्ययं, येषां तेषां भावस्तत्ता तया ।
  
  
  
   विमतानां विद्विषां बलानीव स्वजीवितान्यपि तृणीकृत्य तृणं मत्वेति तात्पर्यार्थः ।
  
  
  
   समराद्भयं च, विकोशानि बिविगतावरणकानि, शस्त्रास्त्रमण्डलानीव, विधूय
  
  
  
  
  
  
  
  प्रकम्प्य । कादाचित्कीः भर्तुरिन्द्राद्विमानना असम्भावनाश्च पुत्रदारैः परि-
  
  
  
  भवानिव विस्मृत्य। अनुपतन्तीं आगच्छन्तीं मित्रवरूथिनीभिमिव, जयश्रियं मनागप्य-
  
  
  
  नपेक्ष्य । शरानलस्यार्चिषि ज्वालायां, शरीराणि होष्यन्तः होमं करिष्यन्तः ।
  
  
  
   शरदिन्दुरिव सुन्दराणि, यशसां कन्दळानि नवाङ्ककुराणीत्यर्थ:थः । "कदली वृक्ष-
  
  
  
  मृगयोः कन्दळं तु नवाक्ङ्कुरः" इति नानार्थरत्नमाला । चेष्यन्तः पोक्ष्यन्तः,
  
  
  
   वर्धयिष्यन्त इत्येकः पाठः । मतङ्गजान् महिषानिव । सैन्धवान् हयान् ।
  
  
  
   "हयसैन्धवसप्तयः" इत्यमरः । सारमेयानि शुनकानिव । "कौलटेयस्सारमेयः
  
  
  
   कुक्कुरो मृगदंशक: कः" इत्यमरः । पदातीनां गणान् पांसूनां कणानिव । "लव-
  
  
  
  लेशकणाणवः" इत्यमरः । महारथिकान् । "आत्मानं सारथिं चाश्वान् रक्षन्युध्येत
  
  
  
   यो नरः । स महारथसंज्ञः स्यादित्याहुर्युद्धकोविदाः ॥" मशकानिव । कुन्तैः
  
  
  
   मुद्गरैः तोमरैश्च प्रहारान् ताडनानि कुसुमानां विहारान् विकिरणानीव ।
  
  
  
   बाणानां वृष्टिं पटवासस्य गण्डचूर्णस्य वृष्टिमिव । "पिष्टात:तः पटवासक:"
  
  
  
  कः" इत्यमरः । मन्यमानाः मन्वाना:नाः । हन्यमाना अपि ताड्यमाना अपि । हर्षाट्ट-
  
  
  
  हासेन मुखराः । हरिणार्भकेषु मृगशिशुषु नखरायुधा इव सिंहा इव । "सिंहस्तु
  
  
  
   नखरायुधः" इति यादवः । राजिलेषु जलसर्पेषु । "अलगर्दो जलव्याळस्समौ
  
  
  
  
  
  
  
  राजिलडुण्डुभौ" इत्यमरः । नागान्तका इव गरुडा इव । "नागान्तको विष्णुरथ: "
  
  
  
  थः"
  
  
  
   
  
  
  
  a. चतस्रोऽपि समुञ्च्चयोपमाः ध्येयाः ।
  
  
  
   
  
  
  
  "