2023-06-05 16:39:45 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
५३
भर्तृविमाननाः कादाचित्कीः पुत्रदारपरिभवानिव', मनागप्यनपेक्ष्य जय-
श्रियमनुपतन्तीमिव मित्रवरूथिनीं, होष्यन्तश्शरानलाचिषि शरीराणि,
चेष्यन्तश्शरदिन्दुसुन्दराणि यशःकन्दळानि, महिषानिव मतङ्गजान्,
सारमेयानिव सैन्धवान्, पांसुकणानिव पदातिगणान्, मशकानिव
महारथिकान्, कुसुमविहारानिव कुन्ततोमरमुद्गरप्रहारान्, पटवासवृष्टि-
मिव बाणवृष्टिमपि मन्यमानाः, हन्यमाना अपि हर्षाट्टहासमुखराः,
नखरायुधा इव हरिणार्भकेषु, नागान्तका इव राजिलेषु, दन्तावळा
ऋणापनयनं, तस्य सम्पादनं, तस्य अवसर: समय:, तस्य लाभ: प्राप्तिः,
तेन सम्भावितः प्राप्तः, उत्साह: सामर्थ्य, येषां तेषां भावस्तत्ता तया ।
विमतानां विद्विषां बलानीव स्वजीवितान्यपि तृणीकृत्य तृणं मत्वेति तात्पर्यार्थः ।
समराद्भयं च, विकोशानि बिगतावरणकानि, शस्त्रास्त्रमण्डलानीव, विधूय
प्रकम्प्य । कादाचित्कीः भर्तुरिन्द्राद्विमानना असम्भावनाश्च पुत्रदारैः परि-
भवानिव विस्मृत्य। अनुपतन्तीं आगच्छन्तीं मित्रवरूथिनीभिव, जयश्रियं मनागप्य-
नपेक्ष्य । शरानलस्यार्चिषि ज्वालायां, शरीराणि होष्यन्तः होमं करिष्यन्तः ।
शरदिन्दुरिव सुन्दराणि, यशसां कन्दळानि नवाङ्कराणीत्यर्थ: । "कदली वृक्ष-
मृगयोः कन्दळं तु नवाक्कुरः" इति नानार्थरत्नमाला । चेष्यन्तः पोक्ष्यन्तः,
वर्धयिष्यन्त इत्येकः पाठः । मतङ्गजान् महिषानिव । सैन्धवान् हयान् ।
"हयसैन्धवसप्तयः" इत्यमरः । सारमेयानि शुनकानिव । "कौलटेयस्सारमेयः
कुक्कुरो मृगदंशक: " इत्यमरः । पदातीनां गणान् पांसूनां कणानिव । "लव-
लेशकणाणवः" इत्यमरः । महारथिकान् । "आत्मानं सारथिं चाश्वान् रक्षन्युध्येत
यो नरः । स महारथसंज्ञः स्यादित्याहुर्युद्धकोविदाः ॥" मशकानिव । कुन्तैः
मुद्गरैः तोमरैश्च प्रहारान् ताडनानि कुसुमानां विहारान् विकिरणानीव ।
बाणानां वृष्टिं पटवासस्य गण्डचूर्णस्य वृष्टिमिव । "पिष्टात: पटवासक:"
इत्यमरः । मन्यमानाः मन्वाना: । हन्यमाना अपि ताड्यमाना अपि । हर्षाट्ट-
हासेन मुखराः । हरिणार्भकेषु मृगशिशुषु नखरायुधा इव सिंहा इव । "सिंहस्तु
नखरायुधः" इति यादवः । राजिलेषु जलसर्पेषु । "अलगर्दो जलव्याळस्समौ
राजिलडुण्डुभौ" इत्यमरः । नागान्तका इव गरुडा इव । "नागान्तको विष्णुरथ: "
a. चतस्रोऽपि समुञ्चयोपमाः ध्येयाः ।
"