2023-08-05 10:15:43 by Bharadwajraki
This page has been fully proofread twice.
भीमं भीमेन तस्याथ सैन्यं सैन्येन विद्विषाम् ।
समगच्छत कल्पान्ते सागरेणेव सागरः ॥ ३१ ॥
किं च ।
यावज्यावलयावलीढशिखरक्रूरप्रकारध्वन-
च्चापव्यापृतपाणिभिः स्थपुटितं नासीरमासीद्धटैः ।
तावद्देवपतिः क्व दानवपतिः क्वेति प्रवृत्तैः क्रुधा
सेनारक्षिभिरेव तत्र महते युद्धाय बद्धा मतिः ॥ ३२ ॥
तदनु शुनासीर एव स्वनासीरमुपेयुषि[^२], चिरभुक्तभर्तृपिण्डानृण्यसम्पादनावसरलाभसंभावितोत्साहतया तृणीकृत्य जीवितानि विमतबलानीव, विधूय समरभयं विकोशानीव शस्त्रास्त्रमण्डलानि, विस्मृत्य
[Ccommentary]
भीममिति ॥ अथ इन्द्रोद्यमनानन्तरं तस्येन्द्रस्य भीमं भयङ्करं सैन्यं कर्तृ, विद्विषां भीमेन भयङ्करेण । "घोरं भीमं भयानकम्" इत्यमरः । सैन्येन सह, कल्पान्ते कल्पावसाने, समुपस्थिते, सागरः पूर्वः पश्चिमेन, दक्षिणः उत्तरेण सागरेणेव, समागच्छत[^१] समाघटत । समाश्लिष्यदिति यावत् । योद्धुकामः शस्त्रपाणिर्जीवन् को वा भटः रणमूर्धनि तूष्णीं वर्ततेति भावः । तदानीमुभयत्र तु बहुषु योधेषु सत्स्वपि प्रथमं सुरदैत्येन्द्रावेवान्वेषितवन्त इत्याह ॥ यावदिति ॥ ज्यावलयेन मौर्वीवलयेन, अवलीढमाक्रान्तं शिखरं यस्य स तथाभूतश्चासौ क्रूरप्रकारः क्रूरजातीयः, ध्वनंश्च यश्चापः तस्मिन् व्यापृताः सञ्चिताः पाणयो येषां तैः भटैः, नासीरं, स्थपुटितं व्यत्यस्तं, यावदासीत् तावदेव, देवपतिः क्व, दानवपतिः क्व इति प्रवृत्तैः, सेनारक्षिभिः सेनापतिभिरेव महते युद्धाय, क्रुधा मतिः बद्धाऽऽसीदित्यन्वयः । सति मुख्ये को वाऽमुख्यान्वेषणं कुर्यादित्यर्थः । स्वामिनो देवेन्द्रस्य भृत्यसत्तासाफल्यद्योतनार्थं देवभटा असुरभटान्पातयितुमारेभिर इत्याह ॥ तदन्विति ॥ तदनु शुनासीरे देवेन्द्रे, स्वस्य नासीरं सेनामुखम्, उपेयुष्येव गतवत्येव । चिरं भुक्तं यद्धर्तृपिण्डं भर्तुः रिक्थं
द्रव्यमिति यावत् । "रिक्थं पिण्डमुभे समे" इति यादवः । तस्य यदानृण्यं
[^१] 'समो गम्यृच्छिभ्याम्' (पा. सू. १.३.२९) इत्यनेनात्मनेपदम् ॥
[^२] "क्वसुश्च" (पा. सू. ३.२.१०७) इत्यनेन छन्दसि विहितोऽपि क्वसुः बहुलग्रहणात् लोकेऽपि ॥

[