This page has been fully proofread twice.

भीमं भीमेन तस्याथ सैन्यं सैन्येन विद्विषाम् ।
समगच्छत कल्पान्ते सागरेणेव सागरः ॥ ३१ ॥
 
किं च ।
 
यावज्यावलयावलीढशिखरक्रूरप्रकारध्वन-
च्चापव्यापृतपाणिभिः स्थपुटितं नासीरमासीद्धटैः ।
तावद्देवपतिः क्व दानवपतिः क्वेति प्रवृत्तैः क्रुधा
सेनारक्षिभिरेव तत्र महते युद्धाय बद्धा मतिः ॥ ३२ ॥
 
तदनु शुनासीर एव स्वनासीरमुपेयुषि[^२], चिरभुक्तभर्तृपिण्डानृण्यसम्पादनावसरलाभसंभावितोत्साहतया तृणीकृत्य जीवितानि विमतबलानीव, विधूय समरभयं विकोशानीव शस्त्रास्त्रमण्डलानि, विस्मृत्य
 
[Commentary]
 
भीममिति ॥ अथ इन्द्रोद्यमनानन्तरं तस्येन्द्रस्य भीमं भयङ्करं सैन्यं कर्तृ, विद्विषां भीमेन भयङ्करेण । "घोरं भीमं भयानकम्" इत्यमरः । सैन्येन सह, कल्पान्ते कल्पावसाने, समुपस्थिते, सागरः पूर्वः पश्चिमेन, दक्षिणः उत्तरेण सागरेणेव, समागच्छत[^१] समाघटत । समाश्लिष्यदिति यावत् । योद्धुकामः शस्त्रपाणिर्जीवन् को वा भटः रणमूर्धनि तूष्णीं वर्ततेति भावः । तदानीमुभयत्र तु बहुषु योधेषु सत्स्वपि प्रथमं सुरदैत्येन्द्रावेवान्वेषितवन्त इत्याह ॥ यावदिति ॥ ज्यावलयेन मौर्वीवलयेन, अवलीढमाक्रान्तं शिखरं यस्य स तथाभूतश्चासौ क्रूरप्रकारः क्रूरजातीयः, ध्वनंश्च यश्चापः तस्मिन् व्यापृ ताः सञ्चिताः पाणयो येषां तैः भटैः, नासीरं, स्थपुटितं व्यत्यस्तं, यावदासीत् तावदेव, देवपतिः क्व, दानवपतिः क्व इति प्रवृत्तैः, सेनारक्षिभिः सेनापतिभिरेव महते युद्धाय, क्रुधा मतिः बद्धाऽऽसीदित्यन्वयः । सति मुख्ये को वाऽमुख्यान्वेषणं कुर्यादित्यर्थः । स्वामिनो देवेन्द्रस्य भृत्यसत्तासाफल्यद्योतनार्थं देवभटा असुरभटान्पातयितुमारेभिर इत्याह ॥ तदन्विति ॥ तदनु शुनासीरे देवेन्द्रे, स्वस्य नासीरं सेनामुखम्, उपेयुष्येव गतवत्येव । चिरं भुक्तं यद्धर्तृपिण्डं भर्तुः रिक्थं
द्रव्यमिति यावत् । "रिक्थं पिण्डमुभे समे" इति यादवः । तस्य यदानृण्यं
 
[^१] 'समो गम्यृच्छिभ्याम्' (पा. सू. १.३.२९) इत्यनेनात्मनेपदम् ॥
 
[^२] "क्वसुश्च" (पा. सू. ३.२.१०७) इत्यनेन छन्दसि विहितोऽपि क्वसुः बहुलग्रहणात् लोकेऽपि ॥