This page has not been fully proofread.

५२
 
नीलकण्ठ विजये सव्याख्याने
 
भीमं भीमेन तस्याथ सैन्यं सैन्येन विद्विषाम् ।
समगच्छत कल्पान्ते सागरेणेव सागरः ॥ ३१ ॥
किं च ।
 
यावज्यावलयावलीढशिखरक्रूरप्रकारध्वन-
च्चापव्यापृतपाणिभिः स्थपुटितं नासीरमासीद्धटैः ।
तावदेवपतिः क्व दानवपतिः केति प्रवृत्तैः क्रुधा
 
सेनारक्षिभिरेव तत्र महते युद्धाय बद्धा मतिः ॥ ३२ ॥
तदनु शुनासीर एव स्वनासीरमुपेयुषि, चिरभुक्तभर्तृपिण्डानृण्य-
सम्पादनावसरलाभसंभावितोत्साहतया तृणीकृत्य जीवितानि विमत-
बलानीव, विधूय समरभयं विकोशानीव शस्त्रास्त्रमण्डलानि, विस्मृत्य
भीममिति ॥ अथ इन्द्रोद्यमनानन्तरं तस्येन्द्रस्य भीमं भयङ्करं सैन्यं कर्तृ,
विद्विषां भीमेन भयङ्करेण । "घोरं भीमं भयानकम्" इत्यमरः । सैन्येन सह,
कल्पान्ते कल्पावसाने, समुपस्थिते, सागर : पूर्व: पश्चिमेन, दक्षिण: उत्तरेण
सागरेणेव, समागच्छत' समाघटत । समाश्लिष्यदिति यावत् । योद्धुकाम
शस्त्रपाणिर्जीवन् को वा भट: रणमूर्धनि तूष्णीं वर्ततेति भावः । तदानीमुभयत्र तु
बहुषु योधेषु सत्स्वपि प्रथमं सुरदैत्येन्द्रावेवान्वेषितवन्त इत्याह ॥ यावदिति ॥
ज्यावलयेन मौर्वीवलयेन, अवलीढमाकान्तं शिखरं यस्य स तथाभूतश्वासौ
क्रूरप्रकार: क्रूरजातीय:, ध्वनंश्च यश्चापः तस्मिन् व्याप्टताः सञ्चिताः पाणयो
येषां तैः भटैः, नासीरं, स्थपुटितं व्यत्यस्तं, यावदासीत् तावदेव, देवपतिः क्व,
दानवपतिः व इति प्रवृत्तैः, सेनारक्षिभिः सेनापतिभिरेव महते युद्धाय,
क्रुषा मतिः बद्धाऽऽसीदित्यन्वयः । सति मुख्ये को वाऽमुख्यान्वेषणं कुर्या-
दित्यर्थः । स्वामिनो देवेन्द्रस्य भृत्यसत्तासाफल्यद्योतनार्थं देवभटा असुरभटान्
पातयितुमारेभिर इत्याह ॥ तदन्विति ॥ तदनु शुनासीरे देवेन्द्रे, स्वस्य
नासीरं सेनामुखम्, उपेयुष्येव गतवत्येव । चिरं भुक्तं यद्धर्तृपिण्डं भर्तुः रिक्थं
द्रव्यमिति यावत् । "रिक्थं पिण्डमुभे समे" इति यादवः । तस्य यदानृण्यं
'समो गम्यृच्छिभ्याम्' (पा. सू. 1-3-29) इत्यनेनात्मनेपदम् ॥
 
'' क्वसुश्च " (पा. सू. 3-2-107) इत्यनेन छन्दसि विहितोऽपि क्वसुः बहु-
1.
 
2.
 
लग्रहणात् लोकेऽपि ॥
 
"