This page has been fully proofread twice.

कक्ष्यां, आद्यवीथीमुखोपनीतामादाय दम्भोळिं, अर्धपथोपनीतमवमुच्य वारवाणं, अधिगोपुरसदेशमानीयमानमारुह्य मातलिसनाथं रथं, अतिलङ्घ्य संकुलचलदमरभटसङ्घसङ्कटं दुर्गमं गोपुरद्वारं, अतिक्रम्य निजमपि नासीरं, अवगाहमानो दानवचमूं, अलङ्घनीयवचनैरहम्प्रथमिकाप्रतिज्ञातविजयैर्दिक्पतिभिर्निरुध्यमानः चन्द्रोदयारम्भसमुज्जृम्भितसागर इव वेलानियन्त्रितः, क्षणादुद्ग्रीविकाभिलक्ष्यमाणदुर्निग्रहसमराग्रहः शरीरेण केवलमवातिष्ठत सेनामुखे ।
 
[commentary]
 
अधिगोपुरसदेशं[^१] पुरद्वारसमीपप्रदेशे । "पुरद्वारं तु गोपुरं", "सदेशाभ्याशसविसन्निकृष्टाः" इति चामरः । उपनीयमानमानीयमानं, मातलिना सनाथं सहितं, रथमारुह्य । सङ्कुलं अविरलं यथा तथा, चलन्तः ये अमरा एव भटाः योधाः, तेषां सङ्घेन, सङ्कटं सम्बाम् । "सङ्कटं ना तु सम्बाधः", इत्यमरः । अत एव दुर्गमं दुःखेन गम्यं, गोपुरं पुरद्वारं, अतिलङ्घ्य । निजं नासीरमपि ।
"सेनामुखं तु नासीरम्" इत्यमरः । अतिक्रम्य, दानवानां चमूं सेनामवगाहमानः प्रविशन् सन्नित्यर्थः । अलङ्घनीयानि अनतिक्रमणीयानि वचनानि येषां तैः अहम्प्रथमिकया अहं प्रथमं जयानि अहं प्रथमं जयानीति च प्रतिज्ञातः, विजयः यैस्तैः दिक्पतिभिर्निरुध्यमानः, अत एव चन्द्रोदयारम्भेण समुज्जृम्भितः वर्धितः, वेलाभिर्नियन्त्रितः निरुद्धः, सागर इव स्थितः । उत्क्षिप्ता ग्रीवा यस्यां सा उग्रीविका तया । स्वस्थ परस्य सेनयेत्यर्थः । अभिलक्ष्यमाणः दृश्यमानः, दुर्निग्रहः दुर्निवारः, समराग्रहो यस्य स इति बहुव्रीहिगर्भोऽयं कर्मधारयः । सेनामुखे शरीरेण केवलं तन्मात्रेणेत्यर्थः । अवातिष्ठत[^२] तस्थौ । को वा तेजस्वी पराभिभवं सहमानो यत्नमकुर्वन् सततमुदास्त इति भावः ।
देवबलमसुरबलं चेत्युभयं परस्परं समुचितप्रतिपक्षलाभाद्युद्धाय सन्ननाहेत्याह-
 
[^१] विभक्त्यर्थे अव्ययीभावः, हरावित्यधिहरि इतिवत् । 'अव्ययं विभक्तिसमीप...' (पा. सू. २.१.६) इत्यादिना सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । इदं च प्राचामनुरोधेन । वस्तुतस्तु वाचकत्वमेवात्र निपातानामिव न्याय्यम् । अतएव "अव्ययार्था इमे निर्दिश्यन्ते" इति भाष्ये उक्तम् । स्वयमपि "निपातेनाभिहिते" इति "विषवृक्षोऽपि" इत्यत्र कारके वक्ष्यति । अतएव "पूर्वपदार्थप्रधानोऽव्ययीभावः" इत्युत्सर्गस्य निर्वाहः । द्योत्यार्थस्य विशेष्यत्वं "स्त्रियाम्" (पा. सू. ४.१.३) इति सूत्रभाष्यविरोधादुपेक्ष्यमेव ॥
 
[^२] "समवप्रविभ्यः स्थः" (पा. सू. १.३.२२) इत्यनेनात्मनेपदं भूतानद्यतने लङ् अवपूर्वकात्स्थाधातोः ॥