2023-07-13 10:34:03 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  कक्ष्यां, आद्यवीथीमुखोपनीतामादाय दम्भोळिं, अर्धपथोपनीत-
  
  
  
  मवमुच्य वारवाणं, अधिगोपुरसदेशमानीयमानमारुह्य मातलिसनाथं
  
  
  
   रथं, अतिलङ्घघ्य संकुलचलद मरभटसङ्घसङ्कटं दुर्गमं गोपुरद्वारं, अतिक्रम्य
  
  
  
   निजमपि नासीरं, अवगाहमानो दानवचमूं, अलङ्घनीयवचनरहम्प्रथ-
  
  
  
  मिकाप्रतिज्ञातविजयैर्दिक्पतिभिर्निरुध्यमानः चन्द्रोदयारम्भसमुज्जृ-
  
  
  
  म्भितसागर इव वेलानियन्त्रितः, क्षणा दुद्ग्रीविकाभिलक्ष्यमाणदुर्निग्रह-
  
  
  
  समराग्रहः शरीरेण केवलमवातिष्ठत सेनामुखे ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  अधिगोपुरसदेशं[^१] पुरद्वारसमीपप्रदेशे । "पुरद्वारं तु गोपुरं", "सदेशाभ्याश-
  
  
  
  सविघसन्निकृष्टाः" इति चामरः । उपनीयमानमानीयमानं, मातलिना सनाथं सहितं,
  
  
  
   रथमारुह्य । सङ्कुलं अविरलं यथा तथा, चलन्तः ये अमरा एव भटाः
  
  
  
   योधाः, तेषां सङ्घघेन, सङ्कटं सम्बाघम् । "सङ्कटं ना तु सम्बाध : धः", इत्यमरः ।
  
  
  
   अत एव दुर्गमं दुःखेन गम्यं, गोपुरं पुरद्वारं, अतिलङ्घघ्य । निजं नासीरमपि ।
  
  
  
  
  
  
  
  "सेनामुखं तु नासीरम्" इत्यमरः । अतिक्रम्य, दानवानां चमूं सेनामव-
  
  
  
  गाहमानः प्रविशन् सन्नित्यर्थः । अलङ्घनीयानि अनतिक्रमणीयानि वचनानि
  
  
  
   येषां तैः अहम्प्रथमिकया अहं प्रथमं जयानि अहं प्रथमं जयानीति च
  
  
  
   प्रतिज्ञातः, विजय:यः यैस्तैः दिक्पतिभिर्निरुध्यमानः, अत एव चन्द्रोदयारम्भेण समु-
  
  
  
  ज्जृम्भितः वर्धितः, वेलाभिर्नियन्त्रितः निरुद्धः, सागर इव स्थितः । उत्क्षिप्ता ग्रीवा
  
  
  
   यस्यां सा उग्रीविका तया । स्वस्थ परस्य सेनयेत्यर्थः । अभिलक्ष्यमाणः
  
  
  
   दृश्यमानः, दुर्निग्रह:हः दुर्निवाररः, समराग्रहो यस्य स इति बहुव्रीहिगर्भोऽयं
  
  
  
   कर्मधारयः । सेनामुखे शरीरेण केवलं तन्मात्रेणेत्यर्थः । अवातिष्ठत[^२] तस्थौ ।
  
  
  
   को वा तेजस्वी पराभिभववं सहमानो यत्नमकुर्वन् सततमुदास्त इति भावः ।
  
  
  
  
  
  
  
  देवबलमसुरबलं चेत्युभयं परस्परं समुचितप्रतिपक्षलाभाद्युद्धाय सन्ननाहेत्याह-
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] विभक्त्यर्थे अव्ययीभावः, हरावित्यधिहरि इतिवत् । 'अव्ययं विभक्तिसमीप...'
  
  
  
   (पा. सू. 2-1-6२.१.६) इत्यादिना सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । इदं च प्राचामनुरोधेन ।
  
  
  
   वस्तुतस्तु वाचकत्वमेवात्र निपातानामिव न्याय्यम् । अतएव "अव्ययार्था इमे निर्दिश्यन्ते"
  
  
  
   इति भाष्ये उक्तम् । स्वयमपि "निपातेनाभिहिते" इति "विषवृक्षोऽपि" इत्यत्र
  
  
  
   कारके वक्ष्यति । अतएव "पूर्वपदार्थप्रधानोऽव्ययीभावः" इत्युत्सर्गस्य निर्वाहः । द्योत्या-
  
  
  
  र्थस्य विशेष्यत्वं "स्त्रियाम्" (पा. सू. 4-1-3४.१.३) इति सूत्रभाष्य विरोधादुपेक्ष्यमेव ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] "समवप्रविभ्यः स्थ:थः" (पा. सू. 1-3-22१.३.२२) इत्यनेनात्मनेपदं भूतानद्यतने ल
  
  
  
  ङ् अवपूर्वकारत्स्थाधातोः ॥