2023-06-05 16:39:45 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
कक्ष्यां, आद्यवीथीमुखोपनीतामादाय दम्भोळिं, अर्धपथोपनीत-
मवमुच्य वारवाणं, अधिगोपुरसदेशमानीयमानमारुह्य मातलिसनाथं
रथं, अतिलङ्घय संकुलचलद मरभटसङ्घसङ्कटं दुर्गमं गोपुरद्वारं, अतिक्रम्य
निजमपि नासीरं, अवगाहमानो दानवचमूं, अलङ्घनीयवचनरहम्प्रथ-
मिकाप्रतिज्ञातविजयैर्दिक्पतिभिर्निरुध्यमानः चन्द्रोदयारम्भसमुज्जृ-
म्भितसागर इव वेलानियन्त्रितः, क्षणा दुग्रीविकाभिलक्ष्यमाणदुर्निग्रह-
समराग्रहः शरीरेण केवलमवातिष्ठत सेनामुखे ।
अधिगोपुरसदेशं पुरद्वारसमीपप्रदेशे । "पुरद्वारं तु गोपुरं", "सदेशाभ्याश-
सविघसन्निकृष्टाः" इति चामरः । उपनीयमानमानीयमानं, मातलिना सनाथं सहितं,
रथमारुह्य । सङ्कुलं अविरलं यथा तथा, चलन्तः ये अमरा एव भटाः
योधाः, तेषां सङ्घन, सङ्कटं सम्बाघम् । "सङ्कटं ना तु सम्बाध : ", इत्यमरः ।
अत एव दुर्गमं दुःखेन गम्यं, गोपुरं पुरद्वारं, अतिलङ्घय । निजं नासीरमपि ।
"सेनामुखं तु नासीरम्" इत्यमरः । अतिक्रम्य, दानवानां चमूं सेनामव-
गाहमानः प्रविशन् सन्नित्यर्थः । अलङ्घनीयानि अनतिक्रमणीयानि वचनानि
येषां तैः अहम्प्रथमिकया अहं प्रथमं जयानि अहं प्रथमं जयानीति च
प्रतिज्ञातः, विजय: यैस्तैः दिक्पतिभिर्निरुध्यमानः, अत एव चन्द्रोदयारम्भेण समु-
ज्जृम्भितः वर्धितः, वेलाभिर्नियन्त्रितः निरुद्धः, सागर इव स्थितः । उत्क्षिप्ता ग्रीवा
यस्यां सा उग्रीविका तया । स्वस्थ परस्य सेनयेत्यर्थः । अभिलक्ष्यमाणः
दृश्यमानः, दुर्निग्रह: दुर्निवार, समराग्रहो यस्य स इति बहुव्रीहिगर्भोऽयं
कर्मधारयः । सेनामुखे शरीरेण केवलं तन्मात्रेणेत्यर्थः । अवातिष्ठत तस्थौ ।
को वा तेजस्वी पराभिभव सहमानो यत्नमकुर्वन् सततमुदास्त इति भावः ।
देवबलमसुरबलं चेत्युभयं परस्परं समुचितप्रतिपक्षलाभायुद्धाय सन्ननाहेत्याह-
1. विभक्त्यर्थे अव्ययीभावः, हरावित्यधिहरि इतिवत् । 'अव्ययं विभक्तिसमीप...'
(पा. सू. 2-1-6) इत्यादिना सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । इदं च प्राचामनुरोधेन ।
वस्तुतस्तु वाचकत्वमेवात्र निपातानामिव न्याय्यम् । अतएव "अव्ययार्था इमे निर्दिश्यन्ते"
इति भाष्ये उक्तम् । स्वयमपि "निपातेनाभिहिते" इति "विषवृक्षोऽपि" इत्यत्र
कारके वक्ष्यति । अतएव "पूर्वपदार्थप्रधानोऽव्ययीभावः" इत्युत्सर्गस्य निर्वाहः । द्योत्या-
र्थस्य विशेष्यत्वं "स्त्रियाम्" (पा. सू. 4-1-3) इति सूत्रभाष्य विरोधादुपेक्ष्यमेव ॥
2. "समवप्रविभ्यः स्थ:" (पा. सू. 1-3-22) इत्यनेनात्मनेपदं भूतानद्यतने ल
अवपूर्वकारस्थाधातोः ॥