This page has been fully proofread twice.

अनाकांक्ष्य वैनीतकानयनं, अङ्घ्रिभ्यामेव परिक्रामन्, अनाकर्णयन्निवृत्तिविज्ञापनान्यध्वनि मिळतां सैनिकानां, आकुञ्चिताभ्यां भ्रूलताभ्यामाकम्पितेन[^१] च मुखेन केवलमाकर्णयन्वचनानि चाराणां, सिंहपोतमिव अतिसम्भ्रमोपसृत्वरमनिवर्त्यसमरसंरम्भमग्रत एव चलन्तमात्मजं जयन्तमवरुध्य शपथशतैः अन्तःपुररक्षणाय निवेशयन्नालयद्वारि, निस्सरन् बहिस्ततोऽपि, अतित्वरितमालयबाह्यकक्ष्यासमानीतामाबध्य
 
[commentary]
 
मपि । "परम्परावाहनं यत्तद्वैनीतक्रमस्त्रियाम्" इत्यमरः । अनाकांक्ष्य । अङ्घ्रिभ्यामेव परिक्रामन्, अध्वनि मिळतां पुञ्जीभवतां सैनिकानां । निवृत्तिफलकानि विज्ञापनानि प्रार्थनाः, अनाकर्णयन्, आकुञ्चिताभ्यां ग्रथिताभ्यां भ्रूलताभ्यां आकुञ्चितेनेषन्नमितेन मुखेनोपलक्षितः, चाराणां केवलं तेषामेवेत्यर्थः । वचनानि आकर्णयन् । सिंहपोतमिव । अतिसम्भ्रमेण अतित्वरया, उपसृत्वरं[^२] समीपं प्रत्यागतम् । अनिवर्त्यः अनिवार्यः, समरे संरम्भः उद्योगो, यस्य स तथाभूतम्, अग्रत एव चलन्तं गच्छन्तमात्मजं पुत्रं, जयन्तं, शपथाः समयबन्धाः, तेषां शतैः, अवरुध्य निरुध्येत्यर्थः। अन्तःपुररक्षणाय आलयस्य द्वारि द्वारे । "स्त्री द्वार्द्वारं प्रतीहारः" इत्यमरः । निवेशयन् स्थापयन् । ततोऽपि बहिर्निस्सरन् गच्छन्, आलयस्य गृहस्य, बाह्यायां कक्ष्यायां अळिन्दनाम्नि द्वारप्रकोष्ठभागे, समानीतां कक्ष्यां कच्छपुटापरपर्यायां काञ्चीं। "कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने" इति नानार्थेऽमरः । अतित्वरितं क्षिप्रं, आबध्य मध्यप्रदेशमावेष्ट्येत्यर्थः । आद्यवीथीमुखे उपनीतां दम्भोळिं वज्रमादाय, अर्धपथे[^३] अर्धमार्गे उपनीतं वारवाणं कञ्चुकमवमुच्य धृत्वा । "कञ्चुको वारवाणोऽस्त्री" इत्यमरः ।
 
[^१] 'आकुञ्चितेन' इति व्याख्यात्रादृतः पाठः ।
 
[^२] 'इण्नश्जिसर्तिभ्यः क्वरप्' (पा. सू. ३.२.१६३) इत्यनेन उपपूर्वकात् सर्तेः क्वरपि, तस्य पित्कृत्वात् 'ह्रस्वस्य पिति कृति तुक्' (पा. सू. ६.१.७१) इत्यनेन तुकि रूपमिदम् । कित्त्वात् क्वरप:पः 'क्ङिति च' (पा.सू. १.१.५) इति धातोरन्त्यस्य 'सार्वधातुकार्धधातुकयोः" (पा. सू. ७.३.८४) इति गुणाभावः ॥
 
[^३] पथोऽर्धम् इति विग्रहे, "अर्धं नपुंसकम्" (पा. सू. २.२.२) इति समासे, 'ऋक्पूरब्धूः पथामानक्षे" (पा. सू. ५.४.७४) इति पथः समासान्ते अप्रत्यये अकारान्तः अर्धपथशब्दः । अ+अनक्षे इति च्छेदात्, "अच्प्रत्यन्ववपूर्वात्सामलोम्नः" (पा.सू. ५.४.७५) इत्युत्तरसूत्र एव अच्प्रत्ययस्य विधेयत्वेन निर्देशात्पथ:थः समासान्तः अप्रत्यय एव, नतु अच् इति विवेक्तव्यम् ॥