2023-07-13 10:21:47 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  ५०
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  अनाकांक्ष्य वैनीतकानयनं, अघिङ्घ्रिभ्यामेव परिक्रामन्, अनाकर्णयन्त्रि-
  
  
  
  निवृत्तिविज्ञापनान्यध्वनि मिळतां सैनिकानां, आकुञ्चिताभ्यां श्रृभ्रूलताभ्या-
  
  
  
  माकम्पितेन'[^१] च मुखेन केवलमाकर्णयन्वचनानि चारामांणां, सिंहपोत-
  
  
  
  मिव अतिसम्भ्रमोपसृत्वरमनिवर्त्यसमरसंरम्भमग्रत एव चलन्तमात्मजं
  
  
  
   जयन्तमवरुध्य शपथशतःतैः अन्तःपुररक्षणाय निवेशयन्त्रानालयद्वारि,
  
  
  
   निस्सरन् बहिस्ततोऽपि, अतित्वरितमालयबाह्यकक्ष्यासमानीतामाबध्य
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  मपि । "परम्परावाहनं यत्तद्वैनीतकम क्रमस्त्रियाम्" इत्यमरः । अनाकांक्ष्य । अङ्-
  
  
  
  घ्रिभ्यामेव परिक्रामन्, अध्वनि मिळतां पुञ्जीभवतां सैनिकानां । निवृत्तिफलकानि
  
  
  
   विज्ञापनानि प्रार्थनाः, अनाकर्णयन्, आकुञ्चिताभ्यां ग्रथिताभ्यां भ्रूलताभ्यां
  
  
  
   आकुञ्चितेनेषन्नमितेन मुखेनोपलक्षितः, चाराणां केवलं तेषामेवेत्यर्थः । वचनानि
  
  
  
   आकर्णयन् । सिंहपोतमिव । अतिसम्भ्रमेण अतित्वरया, उपसृत्वरं[^२] समीपं
  
  
  
   प्रत्यागतम् । अनिवर्त्यः अनिवार्यः, समरे संरम्भः उद्योगो, यस्य स तथाभूतम्,
  
  
  
   अग्रत एव चलन्तं गच्छन्तमात्मजं पुत्रं, जयन्तं, शपथा:थाः समयबन्धाः, तेषां शतैः,
  
  
  
   अवरुध्य निरुध्येत्यर्थः। अन्तः पुररक्षणाय आलयस्य द्वारि द्वारे । "स्त्री द्वार्द्वारं
  
  
  
   प्रतीहार : रः" इत्यमरः । निवेशयन् स्थापयन् । ततोऽपि बहिर्निस्सरन् गच्छन्,
  
  
  
   आलयस्य गृहस्य, बाह्यायां कक्ष्यायां अळिन्दनाम्नि द्वारप्रकोष्ठभागे, समानीतां
  
  
  
   कक्ष्यां कच्छपुटापरपर्यायां काञ्चीं। "कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभ-
  
  
  
  बन्धने" इति नानार्थेऽमरः । अतित्वरितं क्षिप्रं, आवबध्य मध्यप्रदेशमावेष्टट्ये-
  
  
  
  त्यर्थः । आद्यवीथीमुखे उपनीतां दम्भोळिं वज्रमादाय, अर्धपथे 3[^३] अर्धमार्गे
  
  
  
   उपनीतं वारवाणं कञ्चुकमवमुच्य धृत्वा । "कञ्चुको वारवाणोऽस्त्री" इत्यमरः ।
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] 'आकुञ्चितेन' इति व्याख्यात्रादृतः पाठः ।
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'इण्नश्जिसर्तिभ्यः कक्वरप्' (पा. सू. 3-2-163३.२.१६३) इत्यनेन उपपूर्वकात् सतें:
  
  
  
  कर्तेः क्वरपि, तस्य पित्कृत्वात् 'हह्रस्वस्य पिति कृति तुक्' (पा. सू. 6-1-71६.१.७१) इत्यनेन तुकि
  
  
  
   रूपमिदम् । कित्त्वात् क्वरप: 'किङतिक्ङिति च' (पा.सू. 1-1-5१.१.५) इति धातोरन्त्यस्य 'सार्व-
  
  
  
  धातुकार्धधातुकयो: योः" (पा. सू. 7-3-84७.३.८४) इति गुणाभावः ॥
  
  
  
   
  
  
  
  .
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] पथोऽर्धम् इति विप्ग्रहे, "अर्धधं नपुंसकम्" (पा. सू. 2-2-2 २.२.२) इति समासे,
  
  
  
   'ऋक्पूरब्धू:धूः पथामानक्षे" (पा. सू. 5.4-74५.४.७४) इति पथः समासान्ते अप्रत्यये अकारान्तः
  
  
  
   अर्धपथशब्दः । अ+अनक्षे इति च्छेदशदात्, "अच्प्रत्यन्ववपूर्वात्सामलोम्नः" (पा.सू.
  
  
  
  5-4-75 ५.४.७५) इत्युत्तरसूत्र एव अच्प्रत्ययस्य विधेयत्वेन निर्देशात् पथ: समासान्तः अप्रत्यय
  
  
  
   एव, नतु अच् इति विवेक्तव्यम् ॥
  
  
  
   
  
  
  
  66