2023-06-05 16:39:45 by ambuda-bot
This page has not been fully proofread.
५०
नीलकण्ठविजये सव्याख्याने
अनाकांक्ष्य वैनीतकानयनं, अघिभ्यामेव परिक्रामन्, अनाकर्णयन्त्रि-
वृत्तिविज्ञापनान्यध्वनि मिळतां सैनिकानां, आकुञ्चिताभ्यां श्रृलताभ्या-
माकम्पितेन' च मुखेन केवलमाकर्णयन्वचनानि चारामां, सिंहपोत-
मिव अतिसम्भ्रमोपसृत्वरमनिवर्त्यसमरसंरम्भमग्रत एव चलन्तमात्मजं
जयन्तमवरुध्य शपथशतः अन्तःपुररक्षणाय निवेशयन्त्रालयद्वारि,
निस्सरन् बहिस्ततोऽपि, अतित्वरितमालयबाह्यकक्ष्यासमानीतामाबध्य
मपि । "परम्परावाहनं यत्तद्वैनीतकम स्त्रियाम्" इत्यमरः । अनाकांक्ष्य । अङ्-
घ्रिभ्यामेव परिक्रामन्, अध्वनि मिळतां पुञ्जीभवतां सैनिकानां । निवृत्तिफलकानि
विज्ञापनानि प्रार्थनाः, अनाकर्णयन्, आकुञ्चिताभ्यां ग्रथिताभ्यां भ्रूलताभ्यां
आकुञ्चितेनेषन्नमितेन मुखेनोपलक्षितः, चाराणां केवलं तेषामेवेत्यर्थः । वचनानि
आकर्णयन् । सिंहपोतमिव । अतिसम्भ्रमेण अतित्वरया, उपसृत्वरं समीपं
प्रत्यागतम् । अनिवर्त्यः अनिवार्यः, समरे संरम्भः उद्योगो, यस्य स तथाभूतम्,
अग्रत एव चलन्तं गच्छन्तमात्मजं पुत्रं, जयन्तं, शपथा: समयबन्धाः, तेषां शतैः,
अवरुध्य निरुध्येत्यर्थः। अन्तः पुररक्षणाय आलयस्य द्वारि द्वारे । "स्त्री द्वार्द्वारं
प्रतीहार : " इत्यमरः । निवेशयन् स्थापयन् । ततोऽपि बहिर्निस्सरन् गच्छन्,
आलयस्य गृहस्य, बाह्यायां कक्ष्यायां अळिन्दनाम्नि द्वारप्रकोष्ठभागे, समानीतां
कक्ष्यां कच्छपुटापरपर्यायां काञ्चीं। "कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभ-
बन्धने" इति नानार्थेऽमरः । अतित्वरितं क्षिप्रं, आवध्य मध्यप्रदेशमावेष्टये-
त्यर्थः । आद्यवीथीमुखे उपनीतां दम्भोळिं वज्रमादाय, अर्धपथे 3 अर्धमार्गे
उपनीतं वारवाणं कञ्चुकमवमुच्य धृत्वा । "कञ्चुको वारवाणोऽस्त्री" इत्यमरः ।
,
1. 'आकुञ्चितेन' इति व्याख्यात्रादृतः पाठः ।
2. 'इण्नश्जिसतिभ्यः करप्' (पा. सू. 3-2-163) इत्यनेन उपपूर्वकात् सतें:
करपि, तस्य पित्कृत्वात् 'हस्वस्य पिति कृति तुक्' (पा. सू. 6-1-71) इत्यनेन तुकि
रूपमिदम् । कित्त्वात् क्वरप: 'किङतिच' (पा.सू. 1-1-5) इति धातोरन्त्यस्य 'सार्व-
धातुकार्धधातुकयो: "(पा. सू. 7-3-84) इति गुणाभावः ॥
.
3. पथोऽर्धम् इति विप्रहे, "अर्ध नपुंसकम्" (पा. सू. 2-2-2 ) इति समासे,
'ऋक्पूरब्धू: पथामानक्षे" (पा. सू. 5.4-74) इति पथः समासान्ते अप्रत्यये अकारान्तः
अर्धपथशब्दः । अ+अनक्षे इति च्छेदशत्, "अच्प्रत्यन्ववपूर्वात्सामलोम्नः" (पा.सू.
5-4-75) इत्युत्तरसूत्र एव अप्रत्ययस्य विधेयत्वेन निर्देशात् पथ: समासान्तः अप्रत्यय
एव, नतु अच् इति विवेतव्यम् ॥
66