This page has been fully proofread twice.

र्थ्यमानोऽपि तामवधूय, परिजनवधूकरोदस्तविस्रंसमानसंव्यानपल्लवः, संरम्भशिथिलपदक्रमः समागम्य चकितसमुद्बुद्धदौवारिकजनोद्घाट्यमानकवाटिकामूलपुञ्जीभवदनुक्षणायातचारवृत्तान्तसमावेदन-सन्नह्यत्कुब्जवामनजननिरन्तराळिन्दमन्तःपुरद्वारं, अनादृत्य किङ्करकरावलम्बनं, अनालोक्य निहितामप्यग्रतो मणिपादुकां, अनादिश्य सैनिकागमनं,
 
[commentary]
 
साध्वसं भयं च उद्वेगश्च तैः सह वर्तनं यस्मिन्कर्मणि तत्तथा "उद्वेगौ तु व्यथाकम्पौ" इति भास्करः । उपसृत्य समीपमागत्य । स्त्रीस्वभावेन सुलभेन सुप्रापेन । कातर्येण अधैर्येण । हे मानद ममेति शेषः । सौमङ्गल्यप्रयुक्तपूजाप्रद । एवंविधं साहसं व्यापारं मा कुरु । त्वया कर्तव्यं न भवतीति भावः । "साहसं तु दमो दण्डः" इत्यमरः । प्रेषणीयाः भृत्याः प्रेष्यन्तां इत्यभ्यर्थ्यमानोऽपि प्रार्थ्यमानोऽपि । तां शचीमवधूय तिरस्कृत्य । परिजनवधूकराभ्यामुदस्तमुत्क्षिप्तं, विस्रंसमानस्य लम्बमानस्य, संव्यानस्य[‌‌‍‌^१] उत्तरीयस्य, पल्लवमग्रं, यस्य सः । "संव्यानमुत्तरीयं स्यात्" इत्यमरः । संरम्भेण सत्वरगमनेन, शिथिलः स्खलन्, पदक्रमः पदप्रक्षेपः यस्य सः । चकिताः भीताः, समुद्बुद्धाः ये
दौवारिकजनाः द्वारपालाः, तैरुद्घाट्यमाने विश्लिष्यमाणे ये कवाटिके, तयोर्मूले पुञ्जीभवन्तः सङ्घीभवन्तः, अनुक्षणं प्रतिक्षणं आयाताः, ये चाराः तेषां ये वृत्तान्ताः, तत्समावेदने सन्नह्यन्तः प्रयतमानाः, ये च कुब्जाः ये च वामनजनाः । "कुब्जः सग्रन्थिपृष्ठे स्यात् खर्वो ह्रस्वश्च वामनः" इति नानार्थमालामरौ । तैर्निरन्तरः सान्द्रः, अळिन्दः द्वारप्रकोष्ठभागो, यस्य तत्तथा । "प्रघाणप्रघणा[‌‌‍‌^१]ळिन्दा बहिर्द्वारप्रकोष्ठके" इत्यमरः । अन्तःपुरद्वारं समागम्य, किङ्कराणां करावलम्बनं हस्तसंश्रयणमप्यनादृत्य । अग्रतो निहितां निक्षिप्तामपि मणिमयीं पादुकामनालोक्य । सैनिकानां सेनारक्षकाणां, "सेनारक्षास्तु सैनिकाः" इत्यमरः । आगमनं सहयात्रामनादिश्य । वैनीतकस्य परम्परावाहनस्य । रथादेरिति यावत् । आनयन-
 
[‌‌‍‌^१] 'अन्तरं बहिर्योगोपसंव्यानयोः' (पा. सू. १.१.३६) इति पाणिनिराह । उपसंव्यानशब्दः करणव्युत्पत्त्या उत्तरीयपरः, कर्मव्युत्पत्त्या त्वन्तरीयपरः ॥ विस्रंसमानविशेषणानुरोधेनात्र उत्तरीयमात्रपरः इति भावः ॥
 
[‌‌‍‌^२] 'अगारैकदेशे प्रघणः प्रघाणश्च' (पा.सू. ३.३.७९) इति द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ, आभ्यन्तरो बाह्यश्च तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः, कर्मण्यण्, पक्षे वृद्धिः ॥