2023-07-12 15:30:59 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  र्ध्र्थ्यमानोऽपि तामवधूय,
  
  
  
   
  
  
  
   परिजनवधूकरोदस्तविस्रंसमानसंव्यानपल्लवः,
  
  
  
   
  
  
  
   संरम्भशिथिलपदक्रमः समागम्य चकितसमुद्बुद्धदौवारिकजनोद्धाघाट्य-
  
  
  
  मानकवाटिकामूलपुञ्जीभवदनुक्षणायातचारवृत्तान्तसमावेदन-सन्नह्यत्कु-
  
  
  
  ब्जवा मनजननिरन्तराळिन्दमन्तःपुरद्वारं, अनादृत्य किङ्करकरावलम्बनं,
  
  
  
   अनालोक्य निहितामप्यग्रतो मणिपादुकां, अनादिश्य सैनिकागमनं,
  
  
  
   
  
  
  
  तत्त ।
  
  
  
   
  
  
  
  ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  साध्वसं भयं च उद्वेगश्च तैः सह वर्तनं यस्मिन्कर्मणि
  
  
  
   तत्तथा "उद्वेगौ तु व्यथाकम्पौ" इति भास्करः । उपसृत्य समीपमागत्य । स्त्रीस्वभावेन
  
  
  
   सुलभेन सुप्रापेन । कातर्येण अधैर्येण । हे मानद ममेति शेष:षः । सौमङ्गल्य -
  
  
  
  प्रयुक्तपूजाप्रद । एवंविधधं साहसं व्यापारं मा कुरु । त्वया कर्तव्यं न भवतीति
  
  
  
   भाव:वः । "साहसं तु दमो दण्ड : डः" इत्यमरः । प्रेषणीयाः भृत्याः प्रेष्यन्तां
  
  
  
   इत्यभ्यर्थ्यमानोऽपि प्रार्थ्यमानोऽपि । तां शचीमवधूय तिरस्कृत्य । परिजनवधूकरा-
  
  
  
  भ्यामुदस्तमुत्क्षिप्तं, विस्रंसमानस्य लम्बमानस्य, संव्यानस्य ।[^१] उत्तरीयस्य, पल्लवमग्रं,
  
  
  
   यस्य सः । "संव्यानमुत्तरीयं स्यात्" इत्यमरः । संरम्भेण सत्वरगमनेन, शिथिल
  
  
  
  लः स्खलन्, पदक्रम:मः पदप्रक्षेपः यस्य सः । चकिता:ताः भीताः, समुद्बुद्धा:धाः ये
  
  
  
  
  
  
  
  दौवारिकजनाः द्वारपालाः, तैरुद्धाघाट्यमाने विश्लिष्यमाणे ये कवाटिके, तयोर्मूले
  
  
  
   पुञ्जीभवन्तः सङ्घीभवन्तः, अनुक्षणं प्रतिक्षणं आयाताः, ये चाराः तेषां ये
  
  
  
   वृत्तान्ताः, तत्समावेदने सन्नानह्यन्तः प्रयतमानाः, ये च कुब्जा:जाः ये च वामनजना: ।
  
  
  
  नाः । "कुब्ज :जः सग्रन्थिपृष्ठे स्यात् खर्वो ह्रस्वश्च वामनः" इति नानार्थमालामरौ । तै-
  
  
  
  र्निरन्तरः सान्द्रः, अळिन्दः द्वारप्रकोष्ठभागो, यस्य तत्तथा । "प्रघाणप्रघणा '[^१]ळिन्दा
  
  
  
   बहिर्द्वारप्रकोष्ठ के " इत्यमरः । अन्तःपुरद्वारं समागम्य, किङ्कराणां करावलम्बनं
  
  
  
   हस्तसंश्रयणमप्यनादृत्य । अग्रतो निहितां निक्षिप्तामपि मणिमयीं पादुकामना-
  
  
  
  लोक्य । सैनिकानां सेनारक्षकाणां, "सेनारक्षास्तु सैनिकाः" इत्यमरः । आगमनं
  
  
  
   सहयात्रामनादिश्य । वैनीतकस्य परम्परावाहनस्य । रथादेरिति यावत् । आनयन-
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] 'अन्तरं बहिर्योगोपसंव्यानयोः' (पा. सू. 1-1-36 १.१.३६) इति पाणिनिराह ।
  
  
  
   उपसंव्ङ्ख्यानशब्दः करणव्युत्पत्त्या उत्तरीयपरः, कर्मव्युत्पत्त्या त्वन्तरीयपरः ॥ विस्रंसमान-
  
  
  
  विशेषणानुरोधेनात्र उत्तरीयमात्रपरः इति भावः ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'अगारैकदेशे प्रघणः प्रघाणश्च' (पा.सू. 3-3-79३.३.७९) इति द्वारदेशे द्वौ प्रकोष्ठात्र वलिन्दौ,
  
  
  
   आभ्यन्तरीरो बाह्यश्च तत्र बाह्ये प्रकोष्ठे निपातन मिदम् । प्रविशद्भिर्जनैः पादै:दैः प्रकर्षेण हन्यते
  
  
  
   इति प्रषघणः, कर्मण्यणण्, पक्षे त्रुवृद्धिः ॥
  
  
  
   
  
  
  
  N.-7