2023-06-05 16:39:45 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
र्ध्यमानोऽपि तामवधूय,
परिजनवधूकरोदस्तविस्रंसमानसंव्यानपल्लवः,
संरम्भशिथिलपदक्रमः समागम्य चकितसमुद्बुद्धदौवारिकजनोद्धाट्य-
मानकवाटिकामूलपुञ्जीभवदनुक्षणायातचारवृत्तान्तसमावेदनसन्नह्यत्कु-
ब्जवा मनजननिरन्तराळिन्दमन्तःपुरद्वारं, अनादृत्य किङ्करकरावलम्बनं,
अनालोक्य निहितामप्यग्रतो मणिपादुकां, अनादिश्य सैनिकागमनं,
तत्त ।
।
साध्वसं भयं च उद्वेगश्च तैः सह वर्तनं यस्मिन्कर्मणि
"उद्वेगौ तु व्यथाकम्पौ" इति भास्करः । उपसृत्य समीपमागत्य । स्त्रीस्वभावेन
सुलभेन सुप्रापेन । कातर्येण अधैर्येण । हे मानद ममेति शेष: । सौमङ्गल्य -
प्रयुक्तपूजाप्रद । एवंविध साहसं व्यापारं मा कुरु । त्वया कर्तव्यं न भवतीति
भाव: । "साहसं तु दमो दण्ड : " इत्यमरः । प्रेषणीयाः भृत्याः प्रेष्यन्तां
इत्यभ्यर्थ्यमानोऽपि प्रार्थ्यमानोऽपि । तां शचीमवधूय तिरस्कृत्य । परिजनवधूकरा-
भ्यामुदस्तमुत्क्षिप्तं, विस्रंसमानस्य लम्बमानस्य, संव्यानस्य । उत्तरीयस्य, पल्लवमग्रं,
यस्य सः । "संव्यानमुत्तरीयं स्यात्" इत्यमरः । संरम्भेण सत्वरगमनेन, शिथिल
स्खलन्, पदक्रम: पदप्रक्षेपः यस्य सः । चकिता: भीताः, समुद्बुद्धा: ये
दौवारिकजनाः द्वारपालाः, तैरुद्धाट्यमाने विश्लिष्यमाणे ये कवाटिके, तयोर्मूले
पुञ्जीभवन्तः सङ्घीभवन्तः, अनुक्षणं प्रतिक्षणं आयाताः, ये चाराः तेषां ये
वृत्तान्ताः, तत्समावेदने सन्नान्तः प्रयतमानाः, ये च कुब्जा: ये च वामनजना: ।
"कुब्ज : सग्रन्थिपृष्ठे स्यात् खर्वो ह्रस्वश्च वामनः" इति नानार्थमालामरौ । तै-
र्निरन्तरः सान्द्रः, अळिन्दः द्वारप्रकोष्ठभागो, यस्य तत्तथा । "प्रघाणप्रघणा 'ळिन्दा
बहिर्द्वारप्रकोष्ठ के " इत्यमरः । अन्तःपुरद्वारं समागम्य, किराणां करावलम्बनं
हस्तसंश्रयणमप्यनादृत्य । अग्रतो निहितां निक्षिप्तामपि मणिमयीं पादुकामना-
लोक्य । सैनिकानां सेनारक्षकाणां, "सेनारक्षास्तु सैनिकाः" इत्यमरः । आगमनं
सहयात्रामनादिश्य । वैनीतकस्य परम्परावाहनस्य । रथादेरिति यावत् । आनयन-
1. 'अन्तरं बहिर्योगोपसंव्यानयोः' (पा. सू. 1-1-36 ) इति पाणिनिराह ।
उपसंव्यानशब्दः करणव्युत्पत्त्या उत्तरीयपरः, कर्मव्युत्पत्त्या त्वन्तरीयपरः ॥ विस्रंसमान-
विशेषणानुरोधेनात्र उत्तरीयमात्रपरः इति भावः ॥
2. 'अगारैकदेशे प्रघणः प्रघाणश्च' (पा.सू. 3-3-79) इति द्वारदेशे द्वौ प्रकोष्ठात्र लिन्दौ,
आभ्यन्तरी बाह्यश्च तत्र बाह्ये प्रकोष्ठे निपातन मिदम् । प्रविशद्भिर्जनैः पादै: प्रकर्षेण हन्यते
इति प्रषणः, कर्मण्यण, पक्षे त्रुद्धिः ॥
N.-7