2023-08-04 10:16:34 by Bharadwajraki
This page has been fully proofread twice.
तत्क्षणं च युगविगमसमयसंभिद्यमानसप्तार्णवीनिनादशङ्कावहेन कोलाहलेन नागराणामवबुध्य विद्विषामभिषेणनं, अनुल्लङ्घनीयतापसशापानुसन्धानकुण्ठीकृतोद्यमोऽपि कण्ठीरव इव करिलोकबृंहितेन परिज्वलितमन्युः, शतमन्युः उत्थाय शयनीयात्, उत्प्रेक्षितसमरसंरंभया शचीदेव्या ससम्भ्रमस्नेहसाध्वसोद्वेगमुपसृत्य स्त्रीस्वभावसुलभेन कातर्येण "मानद मा कुरु साहसमेवंविधं, प्रेष्यन्तां प्रेषणीयाः" इत्यभ्य-
[Ccommentary]
[^१]सङ्घे सङ्घे प्रतिसङ्घमित्यर्थः । वीप्सायां द्विर्भावः । स्वैरं स्वेच्छानुगुणम् । "मन्दस्वच्छन्दयोस्स्वैरः" इत्यमरः । तद्यथा तथा, नवनवं यथा तथा, अज्ञातमूलाः अपरिज्ञातमूलकारणकाः । भिन्नभिन्नाः अनेकविधा, बहुप्रकारा इति यावत् । प्रवादाः वृत्तान्ताः । अभवन् बभूवुरित्यर्थः । भवतेः कर्तरि लङ् । अपरिज्ञातकारणमर्थं को वा सम्यग्ब्रूयादिति भावः । भगवानिन्द्रोऽपि युद्धाय सन्ननाहेति वक्तुं
तदीययुद्धयात्राक्रममेव वर्णयितुमारभते ॥ तत्क्षणमिति ॥ तत्क्षणं तस्मिन्समये । नागराणां पुरजनानां । युगविगमः युगविपर्ययः । प्रळय इति यावत् । तस्य समये, सम्भिद्यमाना उत्सृष्टवेला या सप्तार्णवी[^२] सप्त समुद्राः । अथवा युगविगमेन प्रसम्भिद्यमाना सङ्कलितेत्यर्थः । तस्या निनाद इति शङ्कावहेन सन्देहजनकेन, कोलाहलेन, कलकलेन विद्विषां अभिषेणनं सेनया सहागमनम् ।
"यत्सेनयाभिगमनमरौ तदभिषेणनम्" इत्यमरः । अवबुध्य ज्ञात्वा । अनुल्लङ्घनीयः अनतिक्रमणीयः, यः तापसशापः तदनुसन्धानाद् ध्यानात्, कुण्ठीकृतः विकलीकृतः, उद्यमः उद्योगः येन स तथाभूतोऽपि । करिबृंहितेन गजगर्जितेन कण्ठीरव इव, परिज्वलितः प्रज्वलितः, मन्युः क्रोधो यस्य स तथाभूतः, शतं मन्यवः क्रतवो यस्य सः इन्द्रः । "मन्युर्दैन्ये क्रतौ क्रुधि" इत्यमरः । शयनीयात् शय्यातः, उत्थाय, उत्प्रेक्षितः ऊहितः, समरसंरम्भो युद्धोपक्रमः यया तया । शचीदेव्या, सम्भ्रमः त्वरा च स्नेहश्च
[^१] "सर्वस्य द्वे" (पा.सू. ८.१.१) इत्यधिकारपठितेन "नित्यवीप्सयोः" (पा. सू. ८.१.४) इत्यनेन द्विर्भावः । "ग्रामोग्रामो रमणीयः, वृक्षं वृक्षं सिञ्चति" -- इतिवत् । वीप्सा=कार्त्स्न्यम् ॥
[^२] सप्तानामर्णवानां समाहारः = सप्तार्णवी, "तद्धितार्थोत्तरपदसमाहारे च" (पा. सू. २.१.५१) इति सूत्रेण समाहारद्विगौ अकारान्तोत्तरपदेति स्त्रीत्वे, "द्विगोः " (पा.सू. ४.१.२१) इति ङीप् ॥
[
[^१]सङ्घे सङ्घे प्रतिसङ्घमित्यर्थः । वीप्सायां द्विर्भावः । स्वैरं स्वेच्छानुगुणम् । "मन्दस्वच्छन्दयोस्स्वैरः" इत्यमरः । तद्यथा तथा, नवनवं यथा तथा, अज्ञातमूलाः अपरिज्ञातमूलकारणकाः । भिन्नभिन्नाः अनेकविधा, बहुप्रकारा इति यावत् । प्रवादाः वृत्तान्ताः । अभवन् बभूवुरित्यर्थः । भवतेः कर्तरि लङ् । अपरिज्ञातकारणमर्थं को वा सम्यग्ब्रूयादिति भावः । भगवानिन्द्रोऽपि युद्धाय सन्ननाहेति वक्तुं
तदीययुद्धयात्राक्रममेव वर्णयितुमारभते ॥ तत्क्षणमिति ॥ तत्क्षणं तस्मिन्समये । नागराणां पुरजनानां । युगविगमः युगविपर्ययः । प्रळय इति यावत् । तस्य समये, सम्भिद्यमाना उत्सृष्टवेला या सप्तार्णवी[^२] सप्त समुद्राः । अथवा युगविगमेन प्रसम्भिद्यमाना सङ्कलितेत्यर्थः । तस्या निनाद इति शङ्कावहेन सन्देहजनकेन, कोलाहलेन, कलकलेन विद्विषां अभिषेणनं सेनया सहागमनम् ।
"यत्सेनयाभिगमनमरौ तदभिषेणनम्" इत्यमरः । अवबुध्य ज्ञात्वा । अनुल्लङ्घनीयः अनतिक्रमणीयः, यः तापसशापः तदनुसन्धानाद् ध्यानात्, कुण्ठीकृतः विकलीकृतः, उद्यमः उद्योगः येन स तथाभूतोऽपि । करिबृंहितेन गजगर्जितेन कण्ठीरव इव, परिज्वलितः प्रज्वलितः, मन्युः क्रोधो यस्य स तथाभूतः, शतं मन्यवः क्रतवो यस्य सः इन्द्रः । "मन्युर्दैन्ये क्रतौ क्रुधि" इत्यमरः । शयनीयात् शय्यातः, उत्थाय, उत्प्रेक्षितः ऊहितः, समरसंरम्भो युद्धोपक्रमः यया तया । शचीदेव्या, सम्भ्रमः त्वरा च स्नेहश्च
[^१] "सर्वस्य द्वे" (पा.सू. ८.१.१) इत्यधिकारपठितेन "नित्यवीप्सयोः" (पा. सू. ८.१.४) इत्यनेन द्विर्भावः । "ग्रामोग्रामो रमणीयः, वृक्षं वृक्षं सिञ्चति" -- इतिवत् । वीप्सा=कार्त्स्न्यम् ॥
[^२] सप्तानामर्णवानां समाहारः = सप्तार्णवी, "तद्धितार्थोत्तरपदसमाहारे च" (पा. सू. २.१.५१) इति सूत्रेण समाहारद्विगौ अकारान्तोत्तरपदेति स्त्रीत्वे, "द्विगोः