2023-07-12 15:16:56 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  तत्क्षणं च युगविगमसमयसंभिद्यमानसप्तार्णवीनिनादशङ्कावहेन
  
  
  
   कोलाहलेन नागराणामवबुध्य विद्विषामभिषेणनं, अनुल्लङ्घनीयतापस-
  
  
  
  शापानुसन्धानकुण्ठीकृतोद्यमोऽपि कण्ठीरव इव करिलोकबृंहितेन परि-
  
  
  
  ज्वलितमन्युः, शतमन्युः उत्थाय शयनीयात्, उत्प्रेक्षितसमरसं-
  
  
  
  रंभया शचीदेव्या ससम्भ्रमस्नेहसाध्वसोद्वेगमुपसृत्य स्त्रीस्वभावसुलभेन
  
  
  
   कातर्येण "मानद मा कुरु साहसमेवंविधं, प्रेष्यन्तां प्रेषणीयाः" इत्यभ्य-
  
  
  
  ४८
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  '
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  [^१]सङ्घे सङ्घे प्रतिसङ्घमित्यर्थः । वीप्सायां द्विर्भावः । स्वैरं स्वेच्छानुगुणम् । "मन्दस्वच्छ-
  
  
  
  न्दयोस्स्वैरः" इत्यमरः । तद्यथा तथा, नवनवं यथा तथा, अज्ञातमूला:लाः अपरिज्ञात-
  
  
  
  मूलकारणकाः । भिन्नभिन्नाः अनेकविधा, बहुप्रकारा इति यावत् । प्रवादा:
  
  
  
  दाः वृत्तान्ताः । अभवन् बभूवुरित्यर्थः । भवते:तेः कर्तरि लङ् । अपरिज्ञातकारणमर्थ
  
  
  
  ।
  
  
  
  थं को वा सम्यग्नूब्रूयादिति भावः । भगवानिन्द्रोऽपि युद्धाय सन्ननाहेति वक्तुं
  
  
  
  
  
  
  
  तदीययुद्धयात्राक्रममेव वर्णयितुमारभते ॥ तत्क्षणमिति ॥ तत्क्षणं तस्मिन्
  
  
  
  समये । नागराणां पुरजनानां । युगविगम:मः युगविपर्यययः । प्रळय इति यावत् ।
  
  
  
   तस्य समये, सम्भिद्यमाना उत्सृष्टवेला या सप्तार्णवी[^२] सप्त समुद्राः । अथवा
  
  
  
   युगविगमेन प्रसम्भिद्यमाना सङ्कलितेत्यर्थः । तस्या निनाद इति शङ्कावहेन
  
  
  
   सन्देहजनकेन, कोलाहलेन, कलकलेन विद्विषां अभिषेणनं सेनया सहागमनम् ।
  
  
  
  
  
  
  
  "यत्सेनयाभिगमनमरौ तदभिषेणनम्" इत्यमरः । अवबुध्य ज्ञात्वा । अनुल्ल-
  
  
  
  ङ्घनीयः अनतिक्रमणीयः, य:यः तापसशाप:पः तदनुसन्धानाद् ध्यानात्, कुण्ठीकृत:
  
  
  
  तः विकलीकृतः, उद्यम:मः उद्योग:गः येन स तथाभूतोऽपि । करिबृंहितेन गज-
  
  
  
  गर्जितेन कण्ठीरव इव, परिज्वलिततः प्रज्वलिततः, मन्युः क्रोधो यस्य स
  
  
  
   तथाभूतः, शतं मन्यवः क्रतवो यस्य सः इन्द्रः । "मन्युर्दैन्ये क्रतौ
  
  
  
  कुमि क्रुधि" इत्यमरः । शयनीयात् शय्यातः, उत्थाय, उत्प्रेक्षित:तः ऊहितः, समर-
  
  
  
  संरम्भो युद्धोपक्रमः यया तया । शचीदेव्या, सम्भ्रमः त्वरा च स्नेहश्च
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] "सर्वस्य द्वे" (पा.सू. 8-1-1८.१.१) इत्यधिकारपठितेन "नित्यवीप्सयोः" (पा. सू.
  
  
  
  8-1-4 ८.१.४) इत्यनेन द्विर्भावः । "ग्रामोग्रामो रमणीयः, वृक्षं वृक्षं सिञ्चति" –-- इतिवत् ।
  
  
  
  जी वीप्सा=कार्त्स्न्यम् ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] सप्तानामर्णवानां समाहारः = सप्तार्णवी, "तद्धितार्थोत्तरपदसमाहारे च" (पा. सू.
  
  
  
  2-1-51 २.१.५१) इति सूत्रेण समाहारद्विगौ अकारान्तोत्तरपदेति स्त्रीत्वे, "द्विगो:गोः " (पा.सू.4-1-21 ४.१.२१)
  
  
  
   इति ङीप् ॥