This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
तत्क्षणं च युगविगमसमयसंभिद्यमानसप्तार्णवीनिनादशङ्कावहेन
कोलाहलेन नागराणामवबुध्य विद्विषामभिषेणनं, अनुल्लङ्घनीयतापस-
शापानुसन्धानकुण्ठीकृतोद्यमोऽपि कण्ठीरव इव करिलोकबृंहितेन परि-
ज्वलितमन्युः शतमन्युः उत्थाय शयनीयात् उत्प्रेक्षितसमरसं-
रंभया शचीदेव्या ससम्भ्रमस्नेहसाध्वसोद्वेगमुपसृत्य स्त्रीस्वभावसुलभेन
कातर्येण "मानद मा कुरु साहसमेवंविधं, प्रेष्यन्तां प्रेषणीयाः" इत्यभ्य-
४८
 
"
 
'सङ्घे सङ्घे प्रतिसङ्घमित्यर्थः । वीप्सायां द्विर्भावः । स्वैरं स्वेच्छानुगुणम् । "मन्दस्वच्छ-
न्दयोस्स्वैरः" इत्यमरः । तद्यथा तथा, नवनवं यथा तथा, अज्ञातमूला: अपरिज्ञात-
मूलकारणकाः । भिन्नभिन्नाः अनेकविधा, बहुप्रकारा इति यावत् । प्रवादा:
वृत्तान्ताः । अभवन् बभूवुरित्यर्थः । भवते: कर्तरि लङ् । अपरिज्ञातकारणमर्थ

को वा सम्यग्नूयादिति भावः । भगवानिन्द्रोऽपि युद्धाय सन्ननाहेति वक्तुं
तदीययुद्धयात्राक्रममेव वर्णयितुमारभते ॥ तत्क्षणमिति ॥ तत्क्षणं तस्मिन्
समये । नागराणां पुरजनानां । युगविगम: युगविपर्यय । प्रळय इति यावत् ।
तस्य समये, सम्भिद्यमाना उत्सृष्टवेला या सप्तार्णवी सप्त समुद्राः । अथवा
युगविगमेन प्रसम्भिद्यमाना सङ्कलितेत्यर्थः । तस्या निनाद इति शङ्कावहेन
सन्देहजनकेन, कोलाहलेन, कलकलेन विद्विषां अभिषेणनं सेनया सहागमनम् ।
"यत्सेनयाभिगमनमरौ तदभिषेणनम्" इत्यमरः । अवबुध्य ज्ञात्वा । अनुल्ल-
ङ्घनीयः अनतिक्रमणीयः, य: तापसशाप: तदनुसन्धानाद् ध्यानात्, कुण्ठीकृत:
विकलीकृतः, उद्यम: उद्योग: येन स तथाभूतोऽपि । करिबृंहितेन गज-
गर्जितेन कण्ठीरव इव, परिज्वलित प्रज्वलित, मन्युः क्रोधो यस्य स
तथाभूतः, शतं मन्यवः क्रतवो यस्य सः इन्द्रः । "मन्युदैन्ये क्रतौ
कुमि" इत्यमरः । शयनीयात् शय्यातः, उत्थाय, उत्प्रेक्षित: ऊहितः, समर-
संरम्भो युद्धोपक्रमः यया तया । शचीदेव्या, सम्भ्रमः त्वरा च स्नेहश्च
 
,
 
1. "सर्वस्य द्वे" (पा.सू. 8-1-1) इत्यधिकारपठितेन "नित्यवीप्सयोः" (पा. सू.
8-1-4) इत्यनेन द्विर्भावः । "ग्रामोग्रामो रमणीयः, वृक्षं वृक्षं सिञ्चति" – इतिवत् ।
जीप्सा=कार्न्यम् ॥
 
2. सप्तानामर्णवानां समाहारः = सप्तार्णवी, "तद्धितार्थोत्तरपदसमाहारे च" (पा. सू.
2-1-51) इति सूत्रेण समाहारद्विगौ अकारान्तोत्तरपदेति स्त्रीत्वे, "द्विगो: " (पा.सू.4-1-21)
इति प् ॥