2023-08-04 10:25:48 by Bharadwajraki
This page has been fully proofread twice.
क्रुध्यद्दानवयोधनिर्दयकरव्यामर्दभीमध्वन-
न्नानातोद्यनिनादकातरपरिक्रन्दद्दिगन्तद्विपम् ।
जातं प्रातरतर्कितागतमहातङ्कप्रसङ्गक्षण-
प्रक्षुभ्यत्पुनरुद्भटामरचमूनीरन्ध्रमैन्द्रं पुरम् ॥ २९ ॥
अपि च ।
संरुन्धन्ति द्विषन्तो नगरमिति समायान्ति रुष्टाः पथीति
प्राकारान्तःप्रविष्टा इति चलति रणो दारुणः सम्प्रतीति ।
जीवग्राहं गृहीतः सुरपतिरिति च स्वैरमज्ञातमूलाः
सङ्घे सङ्घे प्रजानां नवनवमभवन् भिन्नभिन्नाः प्रवादाः ॥३०॥
[Ccommentary]
व्याकुलयामासुरिति यावत् । रन्ध्रान्वेषी को वा रन्ध्रलाभे उपेक्षेतेति भावः । प्रथममेव तापसशापाद्भीतममरपुरं तदानीमतीव तरळं समजनीत्याह ॥ क्रुध्यदिति ॥ क्रोधविशिष्टाः ये दानवाः, त एव योधाः, तेषां निर्दयं यथा तथा करव्यामर्दः करैः सन्ताडनं, तेन भीमं यथा तथा, ध्वनन्ति यानि नानातोद्यानि वादित्राणि, तन्निनादेन कातराः अधीराः । "अधीरे कातरत्रस्नुर्भीरुभीरुकभीलुकाः" इत्यमरः । अत एव परिक्रन्दन्तः प्रलपन्तः दिगन्तद्विपाः दिग्गजाः यस्मिन् तत् । प्रातः अतर्कितः अनुत्प्रेक्षितः सन् आगतो यो महातङ्कः मनःपीडा, तस्याः प्रसङ्गः प्रसक्तिः, तस्य क्षण एव प्रक्षुभ्यत् क्षोभविशिष्टम् । ऐन्द्रं पुरं पुनः, उद्भटा उद्धता, या अमरचमूः, तया
नीरन्ध्रं सान्द्रम् । जातं अजनि । शङ्कितः को वा परेभ्यो न बिभेतीति भावः । तदानीं गळिताधिकाराणां अनधिकाराणां च प्रजानां कुकल्पना बहुविधा जातेत्याह ॥ संरुन्धन्तीति ॥ द्विषन्तः शत्रवः । "रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः" इत्यमरः । नगरं संरुन्धन्ति आवृण्वन्तीति । रुष्टाः कुपितास्सन्तः, पथि समायान्तीति आगच्छन्तीति । प्राकारस्यान्तः प्रविष्टा इति च । सम्प्रति दारुणः भयङ्करः रणश्चलति प्रसक्तो भवतीति, सुरपतिरिन्द्रः जीवग्राहं[^१] जीवेन सह गृहीत इति । प्रजानां
[^१] "समूलाकृतजीवेषु हन्कृञ्ग्रहः" (पा. सू. ३.४.३६) इति णमुल् । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । एकस्यापि धात्वर्थस्य जीवादिविशेषणसंबन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः । "कषादिषु यथाविध्यनुप्रयोगः" (पा. सू. ३.४.४६) इत्यनेनानुप्रयोगः कृतः ॥

[