2023-06-05 16:39:44 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
ॐ
क्रुध्यद्दानवयोधनिर्दयकरव्यामर्दभीमध्वन-
न्नानातोद्यनिनादकातरपरिक्रन्द द्दिगन्तद्विपम् ।
जातं प्रातरतर्कितागतमहातङ्कप्रसङ्गक्षण-
प्रक्षुभ्यत्पुनरुद्भटामरचमूनीरन्ध्र मैन्द्रं पुरम् ॥ २९ ॥
अपि च ।
संरुन्धन्ति द्विषन्तो नगरमिति समायान्ति रुष्टाः पथीति
प्राकारान्तःप्रविष्टा इति चलति रणो दारुणः सम्प्रतीति ।
जीवग्राहं गृहीतः सुरपतिरिति च स्वैरमज्ञातमूलाः
सङ्घे सङ्घे प्रजानां नवनवमभवन् भिन्नभिन्नाः प्रवादाः ॥३०॥
व्याकुलयामासुरिति यावत् । रन्ध्रान्वेषी को वा रन्ध्रलाभे उपेक्षेतेति भाव: ।
प्रथममेव तापसशापाद्भीतममरपुरं तदानीमतीव तरळं समजनीत्याह ॥ क्रुध्यदिति ॥
क्रोधविशिष्टाः ये दानवाः, त एव योधाः, तेषां निर्दयं यथा तथा करव्यामर्दः करैः
सन्ताडनं, तेन भीमं यथा तथा, ध्वनन्ति यानि नानातोद्यानि वादित्राणि, तन्निनादेन
कातराः अधीराः । "अधीरे कातरत्रस्नुभीरुभीरुकभीलुका: " इत्यमरः । अत एव
परिक्रन्दन्त: प्रलपन्त: दिगन्तद्विपाः दिग्गजा: यस्मिन् तत् । प्रातः अतर्कित: अनु-
त्प्रेक्षित: सन् आगतो यो महातङ्क: मन:पीडा, तस्याः प्रसङ्गः प्रसक्तिः, तस्य क्षण
एव प्रक्षुभ्यत् क्षोभ विशिष्टम् । ऐन्द्रं पुरं पुनः, उद्भटा उद्धता, या अमरचमूः, तया
नीरन्ध्र सान्द्रम् । जातं अजनि । शङ्कित को वा परेभ्यो न बिभेतीति भावः ।
तदानीं गळिताधिकाराणां अनधिकाराणां च प्रजानां कुकल्पना बहुविधा जातेत्याह-
॥ संन्धन्तीति ॥ द्विषन्तः शत्रवः । " रिपौ वैरिसपत्ना रिद्विषद्वेषणदुर्हद:
इत्यमरः । नगरं संरुन्धन्ति आवृण्वन्तीति । रुष्टाः कुपितास्सन्तः, पथि समायान्तीति
आगच्छन्तीति । प्राकारस्यान्तः प्रविष्टा इति च । सम्प्रति दारुणः भयङ्करः रण-
श्चलति प्रसक्तो भवतीति, सुरपति रिन्द्रः जीवग्राहं ' जीवेन सह गृहीत इति । प्रजानां
:
:"
1. "समूलाकृतजीवेषु हन्कृञ्ग्रह: " ( पा. सू. 3-4-36) इति णमुल । अत्र
प्रकरणे पूर्वकाल इति न संबध्यते । एकस्यापि धात्वर्थस्य जीवादिविशेषण संबन्धाद्भेदः ।
तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः । "कषादिषु यथाविध्यनुप्रयोग:"
(पा. सू. 3-4-46) इत्यनेनानुप्रयोगः कृतः ॥