2023-08-04 10:07:40 by Bharadwajraki
This page has been fully proofread twice.
ज्ञातगन्तव्यदिशा, गगन एव नित्यनिवासेन कदाप्यनागतां मन्दाकिनीं सम्भावयितुमापतता पत्येव वाहिनीनां, महत्या सेनया aसाकमागत्य शाखानगरममरावत्याः, युगपदाहन्यमानपटहादिबहुविध-
वाद्यनिर्घोषपरिपोषितकरिलोकबृंहितोपबृंहितभटकोटिसिंहनादकोलाहलेन
बोधयामासुरनाशङ्कितपरिभवातङ्कसुखशयितानमृताशनान् ।
[commentary]
"महामात्राः प्रधानानि" इत्यमरः । "महामात्रो हास्तिपके सचिवे त्रिषु तून्नते" इति रत्नमाला । करचलनमात्रेण, करसंज्ञामात्रेण परिज्ञाता गन्तव्या गमनोद्देश्या, दिक् यस्यास्सा । गगन एव नित्यवासेन, अनागतां कदाप्यनागताम् । स्वमिति शेषः । मन्दाकिनीं वियद्गङ्गां, सम्भावयितुं, बहुमन्तुं, आपतता आगच्छता, वाहिनीनां नदीनाम् । "सेनानद्योस्तु वाहिनी" इति विश्वः । पत्येव स्थितया समुद्रेणेव स्थितया । महत्या सेनया साकममरावत्याः शाखानगरं उपग्रामम् । "यन्मूलनगरात्पुरम् । तच्छाखानगरं वेशः" इत्यमरः । आगत्य, युगपदेकदा, आहन्यमानानि
ताड्यमानानि, बहुविधानि यानि पटहादिवाद्यानि, तेषां निर्घोषेण, परिपोषितानि उपचितानि यानि करिलोकबृंहितानि "बृंहितं करिगर्जितम्" इत्यमरः । तैरुपबृंहिताः अभिवर्धिता ये भटकोटीनां सिंहनादाः, तेषां कोलाहलेन कलकलेन । "कोलाहलः कलकलः" इत्यमरः । अनाशङ्कितः अनुत्प्रेक्षितः, परिभवेन तिरस्कारेण आतङ्कः मनःपीडा यैस्ते, तथाविधाश्च ते सुखशयिताश्चेति[^१] कर्मधारयः । सुखशयिताः अनाकुला इति तात्पर्यार्थः । तथाभूतानमृताशनान्, बोधयामासुः प्रबोधयामासुः ।
a. "सहयुक्तेऽप्रधाने" (पा.सू. २.३.१९) इत्येनेन सहार्थे शब्दान्तरगम्ये तृतीया उपपदविभक्तिः ॥ "वृद्धोयूना-" (पा. सू. १.२.६५) इति निर्देशात् सहार्थे गम्ये इत्येवार्थः । "युक्तग्रहणं शब्द विशेषानादरेणार्थयोगे भवत्वित्यर्थम्"- इति वदतो नागेश भट्टस्य "अन्तरान्तरेण युक्ते" (पा. सू. २.३.४2) "कर्म प्रवचनीययुक्ते" (पा. सू. २.३.८) इत्यर्थयोगे द्वितीयपात्तिः कथं नेति परिभाव्यमेव । साहित्यं वच कालिकं दैशिकं विद्यामानतामात्रं च यथासंभवम् । अत्र कालिकम् । अन्यत्र कालभेदेऽपि "माषैः सह तिलान् वपति"-- इति दैशिकं। "सहैव दशभिः पुत्रैः भारं वहति गर्दभी" इति विद्यमानतामात्रम् ॥ "अत एव" "अन्यारादित.... युक्ते" (पा. सू. २.३.२९) इत्यत्र इतरग्रहणं चरितार्थम् । अन्तरङ्गत्वात् पितृशब्दात्प्रथमोपपत्तेः, "पुत्रेण सहपितुरागमनम्" इत्यत्रापि "कर्तृकर्मणोः कृति" (पा. सू. २.३.४५) इति कारकविभक्तेः षष्ठ्या उपपत्तेः अप्रधानग्रहणमपि व्त्यक्तुं शक्यम् ॥
[^१] विशेषणोभयपदकर्मधारयः स्नातानुलिप्तवत् ।
वाद्यनिर्घोषपरिपोषितकरिलोकबृंहितोपबृंहितभटकोटिसिंहनादकोलाहलेन
बोधयामासुरनाशङ्कितपरिभवातङ्कसुखशयितानमृताशनान् ।
[commentary]
"महामात्राः प्रधानानि" इत्यमरः । "महामात्रो हास्तिपके सचिवे त्रिषु तून्नते" इति रत्नमाला । करचलनमात्रेण, करसंज्ञामात्रेण परिज्ञाता गन्तव्या गमनोद्देश्या, दिक् यस्यास्सा । गगन एव नित्यवासेन, अनागतां कदाप्यनागताम् । स्वमिति शेषः । मन्दाकिनीं वियद्गङ्गां, सम्भावयितुं, बहुमन्तुं, आपतता आगच्छता, वाहिनीनां नदीनाम् । "सेनानद्योस्तु वाहिनी" इति विश्वः । पत्येव स्थितया समुद्रेणेव स्थितया । महत्या सेनया साकममरावत्याः शाखानगरं उपग्रामम् । "यन्मूलनगरात्पुरम् । तच्छाखानगरं वेशः" इत्यमरः । आगत्य, युगपदेकदा, आहन्यमानानि
ताड्यमानानि, बहुविधानि यानि पटहादिवाद्यानि, तेषां निर्घोषेण, परिपोषितानि उपचितानि यानि करिलोकबृंहितानि "बृंहितं करिगर्जितम्" इत्यमरः । तैरुपबृंहिताः अभिवर्धिता ये भटकोटीनां सिंहनादाः, तेषां कोलाहलेन कलकलेन । "कोलाहलः कलकलः" इत्यमरः । अनाशङ्कितः अनुत्प्रेक्षितः, परिभवेन तिरस्कारेण आतङ्कः मनःपीडा यैस्ते, तथाविधाश्च ते सुखशयिताश्चेति[^१] कर्मधारयः । सुखशयिताः अनाकुला इति तात्पर्यार्थः । तथाभूतानमृताशनान्, बोधयामासुः प्रबोधयामासुः ।
a. "सहयुक्तेऽप्रधाने" (पा.सू. २.३.१९) इत्येनेन सहार्थे शब्दान्तरगम्ये तृतीया उपपदविभक्तिः ॥ "वृद्धोयूना-" (पा. सू. १.२.६५) इति निर्देशात् सहार्थे गम्ये इत्येवार्थः । "युक्तग्रहणं शब्द