2023-07-12 14:57:10 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  ४६
  
  
  
  ज्ञातगन्तव्यदिशा, गगन एव नित्यनिवासेन कदाप्यनागतां मन्दा-
  
  
  
  किनीं सम्भावयितुमापतता पत्येव वाहिनीनां, महत्या सेनया
  
  
  
  ' aसाकमागत्य शाखानगरममरावत्याः, युगपदाहन्यमानपटहादिबहुविध
  
  
  
  -
  
  
  
  वाद्यनिर्घोषपरिपोषितकरिलोकबृंहितोपबृंहितभटकोटिसिंहनादकोलाहलेन
  
  
  
  
  
  
  
  बोधयामासुरनाशङ्कितपरिभवातङ्कसुखशयितानमृताशनान् ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  "महामात्राः प्रधानानि" इत्यमरः । "महामात्रो हास्तिपके सचिवे त्रिषु
  
  
  
   तून्नते" इति रत्नमाला । करचलनमात्रेण, करसंज्ञामात्रेण परिज्ञाता गन्तव्या गमनो-
  
  
  
  द्देश्या, दिक् यस्यास्सा । गगन एव नित्यवासेन, अनागतां कदाप्यनागताम् । स्वमिति
  
  
  
   शेषः । मन्दाकिनीं वियद्गङ्गां, सम्भावयितुं, बहुमन्तुं, आपतता आगच्छता, वाहिनीनां
  
  
  
   नदीनाम् । "सेनानधोद्योस्तु वाहिनी" इति विश्वः । पत्येव स्थितया समुद्रेणेव
  
  
  
   स्थितया । महत्या सेनया साकममरावत्याः शाखानगरं उपग्रामम् । "यन्मूलनग-
  
  
  
  रात्पुरम् । तच्छाखानगरं वेश: शः" इत्यमरः । आगत्य, युगपदेकदा, आहन्यमानानि
  
  
  
  
  
  
  
  ताड्यमानानि, बहुविधानि यानि पटहा दिवाद्यानि, तेषां निर्घोषेण, परिपोषितानि उप-
  
  
  
  चितानि यानि करिलोकबृंहितानि "बृंहितं करिगर्जितम्" इत्यमरः । तैरुपबृंहिताः
  
  
  
   अभिवर्धिता ये भटकोटीनां सिंहनादाः, तेषां कोलाहलेन कलकलेन । "कोलाहल:
  
  
  
  लः कलकलः" इत्यमरः । अनाशङ्कित:तः अनुत्प्रेक्षितः, परिभवेन तिरस्कारेण आतङ्क:
  
  
  
  मन:कः मनःपीडा यैस्ते, तथाविधाश्च ते सुखशयिताश्चेति कर्मधारयः । सुखशयिताः
  
  
  
   अनाकुला इति तात्पर्यार्थः । तथाभूतानमृताशनान्, बोधयामासुः प्रबोधयामासुः ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a. "सहयुक्तेऽप्रधाने" (पा.सू. 2-3-19२.३.१९) इत्येनेन सहार्थे शब्दान्तरगम्ये तृतीया
  
  
  
   उपपदविभक्तिः ॥ "वृद्धोयूना-" (पा. सू. 1-2-65१.२.६५) इति निर्देशात् सहार्थे गम्ये इत्येवार्थः ।
  
  
  
   "युक्तग्रहणं शब्द विशेषाना दरेणार्थ योगे भवत्वित्यर्थम्"-  इति वदतो नागेश भट्टस्य "अन्तरा-
  
  
  
  न्तरेण युक्ते" (पा. सू. २.३.४2-3-4 ) "कर्म प्रवचनीययुक्ते" (पा. सू. 2-3-8२.३.८) इत्यर्थयोगे
  
  
  
   द्वितीयपात्तिः कथं नेति परिभाव्यमेव । साहित्यं व कालिकं दैशिकं विद्यामानतामात्रं च
  
  
  
   यथासंभवम् । अत्र कालिकम् । अन्यत्र कालभेदेऽपि "माषैः सह तिलान् वपति"-
  
  
  
  - इति दैशिकं। "सहैव दशभिः पुत्रैः भारं वहति गर्दभी" इति विद्यमानतामात्रम् ॥
  
  
  
   "अत एव" अन्यारादित.... युक्ते" (पा. सू. 2-3-29२.३.२९) इत्यत्र इतरप्ग्रहणं चरितार्थम् ।
  
  
  
   अन्तरङ्गत्वात् पितृशब्दात्प्रथमोपपत्तःतेः, "पुत्रेण सहपिनुतुरागमनम्" इत्यत्रापि "कर्तृकर्मणोः
  
  
  
   कृति" (पा. सू. 2-3-45 २.३.४५) इति कारक विभक्तेः षष्ठ्या उपपत्तेः अप्रधानग्रहणमपि व्यक्तुं
  
  
  
   शक्यम् ॥
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] विशेषणोभयपदकर्मधारयः स्नातानुलिप्तवत् ।