This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
४६
ज्ञातगन्तव्यदिशा, गगन एव नित्यनिवासेन कदाप्यनागतां मन्दा-
किनीं सम्भावयितुमापतता पत्येव वाहिनीनां, महत्या सेनया
'साकमागत्य शाखानगरममरावत्याः, युगपदाहन्यमानपटहादिबहुविध
वाद्यनिर्घोषपरिपोषितकरिलोकबृंहितोपबृंहितभटकोटिसिंहनादकोलाहलेन
बोधयामासुरनाशङ्कितपरिभवातङ्कसुखशयितानमृताशनान् ।
 
"महामात्राः प्रधानानि" इत्यमरः । "महामात्रो हास्तिपके सचिवे त्रिषु
तून्नते" इति रत्नमाला । करचलनमात्रेण, करसंज्ञामात्रेण परिज्ञाता गन्तव्या गमनो-
द्देश्या, दिक् यस्यास्सा । गगन एव नित्यवासेन, अनागतां कदाप्यनागताम् । स्वमिति
शेषः। मन्दाकिनीं वियद्गङ्गां, सम्भावयितुं, बहुमन्तुं, आपतता आगच्छता, वाहिनीनां
नदीनाम् । "सेनानधोस्तु वाहिनी" इति विश्वः । पत्येव स्थितया समुद्रेणेव
स्थितया । महत्या सेनया साकममरावत्याः शाखानगरं उपग्रामम् । "यन्मूलनग-
रात्पुरम् । तच्छाखानगरं वेश: " इत्यमरः । आगत्य, युगपदेकदा, आहन्यमानानि
ताड्यमानानि, बहुविधानि यानि पटहा दिवाद्यानि, तेषां निर्घोषेण, परिपोषितानि उप-
चितानि यानि करिलोकबृंहितानि "बृंहितं करिगर्जितम्" इत्यमरः । तैरुपबृंहिताः
अभिवर्धिता ये भटकोटीनां सिंहनादाः, तेषां कोलाहलेन कलकलेन । "कोलाहल:
कलकलः" इत्यमरः । अनाशङ्कित: अनुत्प्रेक्षितः, परिभवेन तिरस्कारेण आतङ्क:
मन:पीडा यैस्ते, तथाविधाश्च ते सुखशयिताश्चेति कर्मधारयः । सुखशयिताः
अनाकुला इति तात्पर्यार्थः । तथाभूतानमृताशनान्, बोधयामासुः प्रबोधयामासुः ।
 
a. "सहयुक्तेऽप्रधाने" (पा.सू. 2-3-19) इत्येनेन सहार्थे शब्दान्तरगम्ये तृतीया
उपपदविभक्तिः ॥ "वृद्धोयूना-" (पा. सू. 1-2-65) इति निर्देशात् सहार्थे गये इत्येवार्थः ।
"युक्तग्रहणं शब्द विशेषाना दरेणार्थ योगे भवत्वित्यर्थम्" इति वदतो नागेश भट्टस्य "अन्तरा-
न्तरेण युक्ते" (पा. सू. 2-3-4 ) "कर्म प्रवचनीययुक्ते" (पा. सू. 2-3-8) इत्यर्थयोगे
द्वितीयपात्तिः कथं नेति परिभाव्यमेव । साहित्यं व कालिकं दैशिकं विद्यामानतामात्रं च
यथासंभवम् । अत्र कालिकम् । अन्यत्र कालभेदेऽपि "माषैः सह तिलान् वपति"-
इति दैशिकं। "सहैव दशभिः पुत्रैः भारं वहति गर्दभी" इति विद्यमानतामात्रम् ॥
"अत एव" अन्यारादित.... युक्ते" (पा. सू. 2-3-29) इत्यत्र इतरप्रहणं चरितार्थम् ।
अन्तरङ्गत्वात् पितृशब्दात्प्रथमोपपत्तः, "पुत्रेण सहपिनुरागमनम्" इत्यत्रापि "कर्तृकर्मणोः
कृति" (पा. सू. 2-3-45 ) इति कारक विभक्तेः षष्ठ्या उपपत्तेः अप्रधानग्रहणमपि व्यक्तुं
शक्यम् ॥
 
1. विशेषणोभयपदकर्मधारयः स्नातानुलिप्तवत् ।