2023-08-04 10:02:03 by Bharadwajraki
This page has been fully proofread twice.
अनुच्छ्रयणं ध्वजानां, अवादनं वादित्राणां, अक्ष्वेळनं च योधानां, अभिवन्द्य पुरोधसं, अनुमान्य योधमुख्यान्, आमन्त्र्य गुरुजनं, अनुज्ञाप्य मौहूर्तिकान्, भावयन्तः प्राचीनान् महासुरान् पठन्तश्च
तेषामेव वेदापहरणवसुधानिमज्जनादीनि प्रचण्डानि चरितमङ्गलानि, प्रस्थाय दानवाः कतिचिदतिचिरोपरुद्धकण्डूलदोर्मण्डलतया कालविपाकपचेळिमया शक्तिमत्तया च, पर्यवसितुमिव भूधरानङ्गुळिस्फोटेन, परिक्षेप्तुमिव मुखमारुतेन सप्तसागरान्, उन्मूलयितुमिव समूलमेव पातालं, उत्क्षेप्तुमिव दूरमन्तरिक्षं, व्यत्यासयितुमिव विध्यण्डमण्डलं, निर्वापयितुमिव चन्द्रार्कदीपिकां, दग्धुमिव दहनमपि भक्तुमिव प्रभञ्जनमपि, बद्धुमिव पाशिनमपि, हन्तुमिव दुर्दान्तमन्तकमपि,
सन्नह्यन्त्या aकिञ्चिदप्यज्ञातकार्यविशेषतया महामात्रकरचलनमात्रपरि-
[commentary]
केयूराणाम् । "केयूरमङ्गदं तुल्ये" इत्यमरः । असङ्घट्टनमसंश्लेषणम्। ध्वजानां पताकानां, अनुच्छ्रयणं अनूर्ध्वक्षेपणम् । वादित्राणां वाद्यानां अवादनम् । योधानां भटानामक्ष्वेळनमनट्टहासं च, आदिशन्तः सन्तः, पुरोधसं भार्गवमभिवन्द्य प्रणम्य । योधमुख्याननुमान्य सम्मान्य । सम्मतिं कृत्वेत्यर्थः । गुरुजनं मात्रादीन्, आमन्त्र्य आपृच्छ्य । मौहूर्तिकान् मुहूर्तवेत्तॄन् । "स्युर्मौहूर्तिकमौहूर्त" इत्यमरः । अनुज्ञाप्य पृष्ट्वेत्यर्थः । प्राचीनान् महासुरान् शूरपद्मादीन् । भावयन्तः ध्यायन्तः । तेषां
प्राचीनासुराणामेव । प्रचण्डानि दुस्सहानि, वेदापहरणवसुधानिमज्जनादीनि चरित्रमण्डलानि च पठन्तः । दानवाः प्रस्थाय प्रस्थानं कृत्वा । [^१]केचिदतिचिरोपरुद्धम्, निरुद्धं, कण्डूलानां कण्डूशालिनां, दोष्णां बाहूनां, मण्डलं येषां भावस्तत्ता तया । कालविशेषेण पचेळिमया परिपक्वया, शक्तिमत्तया च, अङ्गुळीनां स्फोटेन शब्देन, भूधरान् पर्यवसितुं निरसितुमिव । सप्तसागरान् मुखमारुतेन, परिक्षेतुं विकिरितुमिव । समूलं पाताळमेव उन्मूलयितुमिव । अन्तरिक्षं दूरमूर्ध्वमुत्क्षेप्तुमिव । विध्यण्डमण्डलं, व्यत्यासयितुमिव व्यत्यासं कर्तुमिव । चन्द्रार्कदीपिकां निर्वापयितुं शमयितुमिव । दहनमपि दग्धुमिव । प्रभञ्जनं वायुमपि भक्तुमिव । पाशिनं वरुणमपि बद्धुमिव । दुर्दान्तमन्तकमपि हन्तुमिव । सन्नहन्त्या कदाचिदप्यज्ञातः कार्यविशेषो यया सा तस्या भावस्तत्ता तया । महामात्रस्य प्रधानस्य ।
[^१] कतिचित् -- इति मूलकारपाठः । a. कदाचिदपि इति व्याख्यापाठः ।