2023-07-12 14:47:39 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  अनुच्छ्रयणं ध्वजानां, अवादनं वादित्राणां, अक्षष्वेळनं च योधानां,
  
  
  
   अभिवन्द्य पुरोधसं, अनुमान्य योधमुख्यान्, आमन्त्र्य गुरुजनं, अनु-
  
  
  
  ज्ञाप्य मौहूर्तिकान्, भावयन्तः प्राचीनान् महासुरान्
  
  
  
   
  
  
  
   पठन्तश्च
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  
  
  
  
  तेषामेव वेदापहरणवसुधानिमज्जनादीनि प्रचण्डानि चरितमङ्गलानि,
  
  
  
   प्रस्थाय दानवाः कतिचिदतिचिरोपरुद्धकण्डूलदोर्मण्डलतया कालविपाक-
  
  
  
  पचेळिमया शक्तिमत्तया च पर्यवसितुमित्रव भूधरानङ्गुळिस्फोटेन,
  
  
  
   परिक्षेप्तुमिव मुखमारुतेन सप्तसागरान्, उन्मूलयितुमिव समूलमेव
  
  
  
   पातालं, उत्क्षेप्तुमिव दूरमन्तरिक्षं, व्यत्यासयितुमिव विध्यण्डमण्डलं,
  
  
  
   निर्वापयितुमिव चन्द्रार्कदीपिकां, दग्धुमिव दहनमपि भक्तुमिव
  
  
  
   प्रभञ्जनमपि, बद्धुमिव पाशिनमपि, हन्तुमिव दुर्दान्तमन्तकमपि,
  
  
  
  
  
  
  
  सन्नह्यन्त्या 'aकिञ्चिदप्यज्ञातकार्यविशेषतया महामात्रकरचलनमात्रपरि-
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  केयूराणाम् । "केयूरमङ्गदं तुल्ये " इत्यमरः । असङ्घट्टनमसंश्लेषणम्। ध्वजानां
  
  
  
   पताकानां, अनुच्छ्रयणं अनूर्ध्वक्षेपणम् । वादित्राणां वाद्यानां अवादनम् । योधानां
  
  
  
   भटानामक्ष्वेळनमनट्टहासं च, आदिशन्तः सन्तः, पुरोधसं भार्गवमभिवन्द्य प्रणम्य ।
  
  
  
  ।
  
  
  
   योधमुख्याननुमान्य सम्मान्य । सम्मतिं कृत्वेत्यर्थः । गुरुजनं मात्रादीन्, आमन्त्र्य
  
  
  
   आपृच्छछ्य। मौहूर्तिकान् मुहूर्तवेत्तृतॄन् । " स्युमहर्तिकर्मौहूर्त तिकमौहूर्त" इत्यमरः । अनु-
  
  
  
  ज्ञाप्य पृष्ट्वेत्यर्थः । प्राचीनान् महासुरान् शूरपद्मादीन् । भावयन्तः ध्यायन्तः । तेषां
  
  
  
  
  
  
  
  प्राचीनासुराणा मेव । प्रचण्डानि दुस्सहानि, वेदापहरणवसुधानिमज्जनादीनि चरित्र -
  
  
  
  मण्डलानि च पठन्तः । दानवाः प्रस्थाय प्रस्थानं कृत्वा । '[^१]केचिदतिचिरोपरुद्धम्,
  
  
  
   निरुद्धं, कण्डूलानां कण्डूशालिनां, दोष्णां बाहूनां, मण्डलं येषां भावस्तत्ता तया ।
  
  
  
   कालविशेषेण पचेळिमया परिपक्वया, शक्तिमत्तया च, अङ्गुळीनां स्फोटेन शब्देन,
  
  
  
   भूधरान् पर्यवसितुं निरसितुमिव । सप्तसागरान् मुखमारुतेन, परिक्षेतुं विकिरितु -
  
  
  
  मिव । समूलं पाताळमेव उन्मूलयितुमिव । अन्तरिक्षं दूरमूर्ध्वमुत्क्षेप्तुमिव ।
  
  
  
   विध्यण्डमण्डलं, व्यत्यासयितुमिव व्यत्यासं कर्तुमिव । चन्द्रार्कदीपिकां निर्वाप-
  
  
  
  यितुं शमयितुमिव । दहनमपि दग्धुमिव । प्रभञ्जनं वायुमपि भक्तुमिव ।
  
  
  
   पाशिनं वरुणमपि बद्धधुमिव । दुर्दान्तमन्तकमपि हन्तुमिव । सन्नानहन्त्या कदाचि-
  
  
  
  दप्यज्ञातः कार्यविशेषो यया सा तस्या भावस्तत्ता तथाया । महामात्रस्य प्रधानस्य ।
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] कतिचित् -- इति मूलकारपाठः ।  a. कदाचिदपि इति व्याख्यापाठः ।