This page has not been fully proofread.

प्रथमाश्वासः
 
अनुच्छ्रयणं ध्वजानां, अवादनं वादित्राणां, अक्षवेळनं च योधानां,
अभिवन्द्य पुरोधसं, अनुमान्य योधमुख्यान्, आमन्त्र्य गुरुजनं, अनु-
ज्ञाप्य मौहूर्तिकान्, भावयन्तः प्राचीनान् महासुरान्
 
पठन्तश्च
 
,
 
तेषामेव वेदापहरणवसुधानिमज्जनादीनि प्रचण्डानि चरितमङ्गलानि,
प्रस्थाय दानवाः कतिचिदतिचिरोपरुद्धकण्डूलदोर्मण्डलतया कालविपाक-
पचेळिमया शक्तिमत्तया च पर्यवसितुमित्र भूधरानगुळिस्फोटेन,
परिक्षेप्तुमिव मुखमारुतेन सप्तसागरान्, उन्मूलयितुमिव समूलमेव
पातालं, उत्क्षेप्तुमिव दूरमन्तरिक्षं, व्यत्यासयितुमिव विध्यण्डमण्डलं,
निर्वापयितुमिव चन्द्रार्कदीपिकां, दग्धुमिव दहनमपि भक्तुमिव
प्रभञ्जनमपि, बधुमिव पाशिनमपि, हन्तुमिव दुर्दान्तमन्तकमपि,
सन्नह्यन्त्या 'किञ्चिदप्यज्ञातकार्यविशेषतया महामात्रकरचलनमात्रपरि-
केयूराणाम् । "केयूरमङ्गदं तुल्ये " इत्यमरः । अश्लेषणम्। ध्वजानां
पताकानां, अनुच्छ्रयणं अनूर्ध्वक्षेपणम् । वादित्राणां वाद्यानां अवादनम् । योधानां
भटानामवेळनमनट्टहासं च, आदिशन्तः सन्तः, पुरोधसं भार्गवमभिवन्द्य प्रणम्य ।

योधमुख्याननुमान्य सम्मान्य । सम्मतिं कृत्वेत्यर्थः । गुरुजनं मात्रादीन्, आमन्त्र्य
आपृच्छय। मौहूर्तिकान् मुहूर्तवेत्तृन् । " स्युमहर्तिकमौहूर्त " इत्यमरः । अनु-
ज्ञाप्य पृष्ट्वेत्यर्थः। प्राचीनान् महासुरान् शूरपद्मादीन् । भावयन्तः ध्यायन्तः । तेषां
प्राचीनासुराणा मेव । प्रचण्डानि दुस्सहानि, वेदापहरणवसुधानिमज्जनादीनि चरित्र -
मण्डलानि च पठन्तः । दानवाः प्रस्थाय प्रस्थानं कृत्वा । 'केचिदतिचिरोपरुद्धम्,
निरुद्धं, कण्डूलानां कण्डूशालिनां, दोष्णां बाहूनां, मण्डलं येषां भावस्तत्ता तया ।
कालविशेषेण पचेळिमया परिपक्वया, शक्तिमत्तया च, अङ्गुळीनां स्फोटेन शब्देन,
भूधरान् पर्यवसितुं निरसितुमिव । सप्तसागरान् मुखमारुतेन, परिक्षेतुं विकिरितु -
मिव । समूलं पाताळमेव उन्मूलयितुमिव । अन्तरिक्षं दूरमूर्ध्वमुत्क्षेप्तुमिव ।
विध्यण्डमण्डलं, व्यत्यासयितुमिव व्यत्यासं कर्तुमिव । चन्द्रार्कदीपिकां निर्वाप-
यितुं शमयितुमिव । दहनमपि दग्धुमिव । प्रभञ्जनं वायुमपि भक्तुमिव ।
पाशिनं वरुणमपि बद्धमिव । दुर्दान्तमन्तकमपि हन्तुमिव । सन्नान्त्या कदाचि-
दप्यज्ञातः कार्यविशेषो यया सा तस्या भावस्तता तथा । महामात्रस्य प्रधानस्य ।
 
1. कतिचित् - इति मूलकारपाठः । a. कदाचिदपि इति व्याख्यापाठः ।