2023-08-04 09:56:59 by Bharadwajraki
This page has been fully proofread twice.
दृढपरिचितानि समरकौशलानि, सफलयिष्यन्तः साधितानि महास्त्राणि, समुल्लिखन्तो वैरनिर्यातनप्रकारान्, अपनेष्यन्तश्चिरनिरूढमपयशोमालिन्यं, अभिनन्दन्तो दुर्वाससं, आवेदयन्तः परस्परमभ्यग्रदृष्टानि शुभनिमित्तानि, विवृण्वन्तो वीरवादान्, विभजन्तः प्रतिसैन्यानि सैनिकानां, अवरुन्धन्तश्चारजनसञ्चारम्, आसूचयन्तो गन्तव्यपदमाप्तवर्गेषु केवलं, आदिशन्तश्च घण्टापनयनमनेकपानां, अङ्गदासङ्घट्टनमश्वोरसानां,
[Ccommentary]
लब्धं अन्तरमवकाशः रन्ध्रमिति यावत्, यस्य सः । तेन मन्त्रिणा भार्गवेण शुक्रेण । समादिष्टाः, चिरात्प्रभृति, निरीक्षितं अवेक्षितं, यद्रन्धं स्वप्रयाणबीजं, तल्लाभेन हृष्टाश्च । दृढमत्यन्तं परिचितानि । "गाढबाढदृढानि च" इत्यमरः । समरेषु कौशलानि चातुर्याणि दर्शयिष्यन्तः । साधितानि महास्त्राणि सफलयिष्यन्तः[^१] सफलानि करिष्यन्तः । सफलशब्दात् तत्करोतीति णिजन्तात् "ऌटस्सद्वा" (पा. सू. ३.३.१४) इति शत्रादेशः । वैरस्य विरोधस्य, निर्यातनं निष्कासनं, तस्य प्रकारान् । "निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च", "प्रकारौ भेदसादृश्ये" इत्युभयत्राप्यमरः । समुल्लिखन्तः विकल्पमानाः । चिरनिरूढं चिरादुद्भूतं । रुहेः कर्तरि क्तः । अयशोमालिन्यं अपनेष्यन्तः क्षालयिष्यन्तः । दूर्वाससं अभिनन्दन्तः । अभ्यग्रं अभिमुखं समीपे वा । "उपकण्ठान्तिकाभ्यर्णाभ्यग्राः" इत्यमरः । दृष्टानि शुभनिमित्तानि गरुडदर्शनभुजस्फुरणादीनि। परस्परमावेदयन्तः । परेषामिति शेषः । वीरवादास्तु अहमेतान्निहन्मीति चाहमेतान्निपातये इत्याकारकाः युद्धयात्रायां प्रसिद्धाः, तान्विवृण्वन्तः विवरणवत्कुर्वन्तः, विस्तरीकुर्वन्त इति वार्थः । सैनिकानां स्वीयानामिति शेषः । प्रतिसैन्यानि प्रतिपक्षसेनाः विभजन्तः, आग्नेयसेनाः केषाञ्चिद्वसुसेनाः केषाञ्चित्सूरसेना केषाञ्चिज्जेतव्या इत्येवं विभागं कुर्वन्तः । चारजनानां सञ्चारं अवरुन्धन्तः । आप्तवर्गेषु केवलं मुख्यं गम्यं गमनोद्देश्यं पदं स्थानं आसूचयन्तः अस्पष्टमीषद्बोधयन्तः । "आङीषदर्थेऽभिव्याप्तौ" इत्यमरः । अनेकाभ्यां मुखशुण्डाभ्यां पिबन्तीत्यनेकपाः, तेषां घण्टानां अपनयनं विमोचनम् । अश्वोरसानां श्रेष्ठाश्वानाम् । "अग्राख्यायामुरसः" (पा. सू. ५.४.९३) इति समासान्तोऽच्प्रत्ययः[^२] । अङ्गदानां
[^१] "तत्करोति तदाचष्टे" -- इति णिचा निष्पन्नोऽयं नामप्रकृतिको धातुः, लृटः शत्रादेशात्, कृदन्ततया सुबन्तः संजातः ॥
[^२] "अप्राख्यायामुरसः" ( पा. सू. ५.४.९३) अग्रे भवोऽग्र्यः मुख्य इति शेखरकृत्, अश्वानामुरहइव अश्वोरसम् = मुख्योऽश्व इत्यर्थः ॥
[

[^२] "अप्राख्यायामुरसः" ( पा. सू. ५.४.९३) अग्रे भवोऽग्र्यः मुख्य इति शेखरकृत्, अश्वानामुर