2023-07-12 11:24:35 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  दृढपरिचितानि समरकौशलानि, सफलयिष्यन्तः साधितानि महास्त्राणि,
  
  
  
   समुल्लिखन्तो वैरनिर्यातनप्रकारान्, अपनेण्ष्यन्तश्चिरनिरूढमपयशो-
  
  
  
  मालिन्यं, अभिनन्दन्तो दुर्वाससं, आवेदयन्तः परस्परमभ्यग्रदृष्टानि
  
  
  
   शुभनिमित्तानि, विवृण्वन्तो वीरवादान्, विभजन्तः प्रतिसैन्यानि सैनि-
  
  
  
  कानां, अवरुन्धन्तश्चारजनसञ्चारम्, आसूचयन्तो गन्तव्यपदमाप्तवर्गेषु
  
  
  
   केवलं, आदिशन्तश्च घण्टापनयनमनेकपानां, अङ्गदासङ्घट्टनमश्वोरसानां,
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  लब्धं अन्तरमवकाशः रन्ध्रमिति यावत्, यस्य सः । तेन मन्त्रिणा भार्गवेण शुक्रेण ।
  
  
  
   समादिष्टाः, चिरात्प्रभृति, निरीक्षिततं अवेक्षिततं, यद्रन्धं स्वप्रयाणधीबीजं, तल्लाभेन हृष्टाश्च ।
  
  
  
   दृढमत्यन्तं परिचितानि । "गाढ बाढदृढानि च " इत्यमरः । समरेषु कौशलानि
  
  
  
   चातुर्याणि दर्शयिष्यन्तः । साधितानि महास्त्राणि सफलयिष्यन्तः '[^१] सफलानि करि-
  
  
  
  ष्यन्तः। सफलशब्दात् तत्करोतीति णिजन्तात् "ऌटस्सद्वा" (पा. सू. 3-3-14३.३.१४)
  
  
  
   इति शत्रादेशः । वैरस्य विरोधस्य, निर्यातनं निष्कासनं, तस्य प्रकारान् । "निर्यातनं
  
  
  
   वैरशुद्धौ दाने न्यासार्पणेऽपि च ", "प्रकारौ भेदसादृश्ये" इत्युभयत्राप्यमरः । समुल्लि-
  
  
  
  खन्तः विकल्पमानाः। चिरनिरूढं चिरादुद्भूतं । रुहे:हेः कर्तरि क्तः । अयशोमालिन्यै
  
  
  
  यं अपनेष्यन्तः क्षालयिष्यन्तः । दूर्वाससं अभिनन्दन्तः । अभ्यग्रं अभिमुखं समीपे वा ।
  
  
  
   "उपकण्ठान्तिकाभ्यर्णाभ्यग्रा : राः" इत्यमरः । दृष्टानि शुभनिमित्तानि गरुडदर्शनभुज-
  
  
  
  स्फुरणादीनि। परस्परमावेदयन्तः । परेषामिति शेषः । वीरवादास्तु अहमेतान्त्रि-
  
  
  
  हृनिहन्मीति चाहमेतान्निपातये इत्याकारकाः युद्धयात्रायां प्रसिद्धाः, तान्विवृण्वन्तः
  
  
  
   विवरणवत्कुर्वन्तः, विस्तरीकुर्वन्त इति वार्थः । सैनिकानां स्वीयानामिति शेषः ।
  
  
  
   प्रतिसैन्यानि प्रतिपक्षसेनाः विभजन्त:तः, आमेग्नेयसेना:नाः केषाञ्चिद्वसुसेनाः केषाञ्चित्सूर-
  
  
  
  सेना केषाश्ञ्चिज्जेतव्या इत्येवं विभागं कुर्वन्तः । चारजनानां सञ्चारं अवरुन्धन्तः ।
  
  
  
   आप्तवर्गेषु केवलं मुख्ययं गम्यं गमनोद्देश्यं पदं स्थानं आसूचयन्त:तः अस्पष्टमीषद्बो-
  
  
  
  धयन्तः । "आङीषदर्थेऽभिव्याप्तौ" इत्यमरः । अनेकाभ्यां मुखशुण्डाभ्यां पिब-
  
  
  
  न्तीत्यनेकपाः, तेषां घण्टानां अपनयनं विमोचनम् । अश्वोरसानां श्रेष्ठाश्वानाम् ।
  
  
  
   "अग्राख्यायामुरस:सः" (पा. सू. 5-4-93५.४.९३) इति समासान्तोऽच्प्रत्यय: 2यः[^२] । अङ्गदानां
  
  
  
   
  
  
  
  :
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] "तत्करोति तदाचष्टे" -- इति णिचा निष्पन्नोऽयं नामप्रकृतिको धातुः, लुलृटः
  
  
  
   शत्रा देशात्, कृदन्ततया सुबन्तः संजातः ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] "अप्राख्यायामुरस: सः" ( पा. सू. 5-4-93५.४.९३) अग्रे भवोऽन्ग्र्यः मुख्य इति
  
  
  
   शेखरकृत्., अश्वानामुर हव अश्वोरसम् = मुख्योऽश्व इत्यर्थः ॥