This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
दृढपरिचितानि समरकौशलानि, सफलयिष्यन्तः साधितानि महास्त्राणि,
समुल्लिखन्तो वैरनिर्यातनप्रकारान्, अपनेण्यन्तश्चिरनिरूढमपयशो-
मालिन्यं, अभिनन्दन्तो दुर्वाससं, आवेदयन्तः परस्परमभ्यग्रदृष्टानि
शुभनिमित्तानि, विवृण्वन्तो वीरवादान्, विभजन्तः प्रतिसैन्यानि सैनि-
कानां, अवरुन्धन्तश्चारजनसञ्चारम्, आसूचयन्तो गन्तव्यपदमाप्तवर्गेषु
केवलं, आदिशन्तश्च घण्टापनयनमनेकपानां, अङ्गदासङ्घट्टनमश्वोरसानां,
 
-
 
लब्धं अन्तरमवकाशः रन्ध्रमिति यावत्, यस्य सः । तेन मन्त्रिणा भार्गवेण शुक्रेण ।
समादिष्टाः,चिरात्प्रभृति, निरीक्षित अवेक्षित, यद्रन्धं स्वप्रयाणधीजं, तल्लाभेन हृष्टाश्च ।
दृढमत्यन्तं परिचितानि । "गाढ बाढदृढानि च " इत्यमरः । समरेषु कौशलानि
चातुर्याणि दर्शयिष्यन्तः । साधितानि महास्त्राणि सफलयिष्यन्तः ' सफलानि करि-
ष्यन्तः। सफलशब्दात् तत्करोतीति णिजन्तात् "ऌटस्सद्वा" (पा. सू. 3-3-14)
इति शत्रादेशः । वैरस्य विरोधस्य, निर्यातनं निष्कासनं, तस्य प्रकारान् । "निर्यातनं
वैरशुद्धौ दाने न्यासार्पणेऽपि च ", "प्रकारौ भेदसादृश्ये" इत्युभयत्राप्यमरः । समुल्लि-
खन्तः विकल्पमानाः। चिरनिरूढं चिरादुद्भूतं । रुहे: कर्तरिक्तः । अयशोमालिन्यै
अपनेष्यन्तः क्षालयिष्यन्तः । दूर्वाससं अभिनन्दन्तः । अभ्यग्रं अभिमुखं समीपे वा ।
"उपकण्ठान्तिकाभ्यर्णाभ्यग्रा : " इत्यमरः । दृष्टानि शुभनिमित्तानि गरुडदर्शनभुज-
स्फुरणादीनि। परस्परमावेदयन्तः । परेषामिति शेषः । वीरवादास्तु अहमेतान्त्रि-
हृन्मीति चाहमेतान्निपातये इत्याकारकाः युद्धयात्रायां प्रसिद्धाः, तान्विवृण्वन्तः
विवरणवत्कुर्वन्तः, विस्तरीकुर्वन्त इति वार्थः । सैनिकानां स्वीयानामिति शेषः ।
प्रतिसैन्यानि प्रतिपक्षसेनाः विभजन्त:, आमेयसेना: केषाञ्चिद्वसुसेनाः केषाञ्चित्सूर-
सेना केषाश्चिज्जेतव्या इत्येवं विभागं कुर्वन्तः । चारजनानां सञ्चारं अवरुन्धन्तः ।
आप्तवर्गेषु केवलं मुख्य गम्यं गमनोद्देश्यं पदं स्थानं आसूचयन्त: अस्पष्टमीषद्बो-
धयन्तः। "आङीषदर्थेऽभिव्याप्तौ" इत्यमरः । अनेकाभ्यां मुखशुण्डाभ्यां पिब-
न्तीत्यनेकपाः, तेषां घण्टानां अपनयनं विमोचनम् । अश्वोरसानां श्रेष्ठाश्वानाम् ।
"अग्राख्यायामुरस:" (पा. सू. 5-4-93) इति समासान्तोऽच्प्रत्यय: 2 । अङ्गदानां
 
:
 
1. "तत्करोति तदाचष्टे" - इति णिचा निष्पन्नोऽयं नामप्रकृतिको धातुः, लुटः
शत्रा देशात्, कृदन्ततया सुबन्तः संजातः ॥
 
2. "अप्राख्यायामुरस: " ( पा. सू. 5-4-93) अग्रे भवोऽन्यः मुख्य इति
शेखरकृत्., अश्वानामुर हव अश्वोरसम् मुख्योऽश्व इत्यर्थः ॥