2023-08-04 10:25:25 by Bharadwajraki
This page has been fully proofread twice.
निखिलमपि विबुधबलमाकर्षन्नेव केवलं, आगत्य पुनर्नगरं, आवेद्य वृत्तमिमं गुरवे वृत्तान्तं, अन्तःपुरं प्रविश्य, दुरन्तचिन्तानुबन्धनियन्त्रितः शयनागार एव जजागार तां रजनीम् । अथ तदानीमेव
गूढनिहितचारनिवेदिततापसशापवृत्तान्तसमाकर्णनलब्धान्तरेण मन्त्रिणा भार्गवेण समादिष्टाः, हृष्टाश्च चिरनिरीक्षितरन्ध्रलाभेन, दर्शयिष्यन्तो
[Ccommentary]
मिव, मूकमिव अनभ्यस्तवचनमिव । बधिरमिव प्रतिबद्धश्रोत्रमिव । मुग्धमिव मूढमिव "मुग्धस्सुन्दरमूढयोः" इति कोशात् । प्रसुप्तमिव शयितमिव । विकलमिव अङ्गरहितमिव । शून्यमिव शून्यतुल्यमिव । वर्तमानमिति शेषः । चित्रफलके विन्यस्तमिव स्थितं । निखिलं विबुधबलमपि, आकर्षन्नेव केवलं, सर्वेषां जङ्घाबलाभावादिति भावः । नगरं प्रत्यागत्य, इमं वृत्तं निष्पन्नार्थं गुरवे निवेद्य । "सर्व वृत्तं प्रभुर्धीमान्मन्त्रिणं विनिवेदयेत्" इति शास्त्रादिति भावः । अन्तःपुरं प्रविश्य, दुरन्ता दुःखोदर्का, या चिन्ता, तस्याः अनुबन्धेन, नियन्त्रितः निगळितस्सन् । शयनागारे शयनसदन एव । तां रजनीं, तस्यां रजन्यामित्यर्थः । "कालाध्वनोरत्यन्तसंयोगे" (पा. सू. २.३.५) इति द्वितीया । जजागार, जागृ[^२] निद्राक्षये, अस्माल्लिट् । न निदद्रावित्यर्थः । अकार्यकारी को वा स्वस्थचित्तो भवतीति भावः । वीरमाहेश्वरस्य दूर्वाससो वचनं सफलयितुमागतेन कालेन प्रेरितचारमुखात् इन्द्रं व्यसनिनं ज्ञात्वा, भार्गवसचिवमुखाच्च । "स्त्रियोऽथ पानं मृगया तथाक्षा दैवोपघातश्च बहुप्रकारः । इति प्रविष्टं व्यसनं स्वकेन समन्वितः स व्यसनी सुगम्यः ॥ परस्य व्यसने केचित्सुखस्याभ्युदये तथा । यानं प्रशंसन्ति बुधाः स्वबलस्योद्धता तथा ॥" इत्यादिशास्त्रं च तत्त्वतोऽवबुध्य तत्कालं स्वानुकूलं यानकालं मन्वानाः बाणादयो राक्षसाः सुरैः सह महते युद्धाय सन्नद्धाः सन्तः तदानीमेव निर्गत्यामरपुरीमावव्रुरित्यादि वक्तुं तदीयनिर्गमनप्रकारं वर्णयितुमारभते ॥ अथेति ॥ अथ दुर्वाससो निर्गमनानन्तरं, तदानीमेव गूढाः वेषान्तरच्छन्नाः । "संवृतौ गूढगूहितौ" इति निघण्टुसारे । निहिताः वर्तमानाः, ये चाराः, तैर्निवेदितः यः तापसशापवृत्तान्तः, तत्समाकर्णनेन
[^१] स्वयमपीत्यादि विशेषणस्य व्याख्याग्रन्थो लुप्तः गवेषणीयः ।
[^२] "जागॄ = निद्राक्षये" -- अयं धातुः आदादिकः परस्मैपदी रुदादिभ्यः पञ्चभ्यः अनन्तरं पठितः ॥

[