This page has not been fully proofread.

प्रथमाश्वासः
 
निखिलमपि विबुधबलमाकर्षन्नेव केवलं, आगत्य पुनर्नगरं, आवेद्य
वृत्तमिमं गुरवे वृत्तान्तं, अन्तःपुरं प्रविश्य, दुरन्तचिन्तानुबन्ध-
नियन्त्रितः शयनागार एव जजागार तां रजनीम् । अथ तदानीमेव
गृहनिहितचा रनिवेदिततापसशापवृत्तान्तसमाकर्णनलब्धान्तरेण मन्त्रिणा
भागवेग समादिष्टाः, हृष्टाश्च चिरनिरीक्षितरन्ध्रलाभेन, दर्शयिष्यन्तो
 
"
 
मूकमिव अनभ्यस्तवचनमिव । बधिरमिव प्रतिबद्ध श्रोत्रमिव । मुग्धमिव
हमिव । "मुग्धस्सुन्दरमूढयो: " इति कोशात् । प्रसुप्तमिव शयितमिव ।
त्रकलमिव अङ्गरहितमिव । शून्यमिव शून्यतुल्यमिव । वर्तमानमिति शेषः ।
चित्रफलके विन्यस्तमिव स्थित । निखिलं विबुधबलमपि, आकर्षन्नेव केवलं,
सर्वेषां जङ्घाबलाभावादिति भावः । नगरं प्रत्यागत्य, इमं वृत्तं निष्पन्नार्थं
गुरवे निवेद्य । " सर्व वृत्तं प्रभुर्धीमान्मन्त्रिणं विनिवेदयेत् " इति शास्त्रा-
'
दिति भावः । अन्तःपुरं प्रविश्य, दुरन्ता दुःखोदक, या चिन्ता, तस्याः
अनुबन्धेन, नियन्त्रितः निगळितस्सन् । शयनागारे शयनसदन एव । तां
रजनीं, तस्यां रजन्यामित्यर्थः । "कालाध्वनोरत्यन्तसंयोगे" (पा. सू. 2-3-5)
इति द्वितीया । जजागार, जागृ' निद्राक्षये, अस्माल्लिट् । न निदद्रावित्यर्थः ।
अकार्यकारी को वा स्वस्थचित्तो भवतीति भावः । वीरमाहेश्वरस्य दूर्वाससो
वचनं सफलयितुमागतेन कालेन प्रेरित चारमुखात् इन्द्रं व्यसनिनं ज्ञात्वा, भार्गवसचिव
मुखाच्च। "स्त्रियोऽथ पानं मृगया तथाक्षा दैवोपघातश्च बहुप्रकार: । इति
प्रविष्ट व्यसनं स्वकेन समन्वितः स व्यसनी सुगम्यः ॥ परस्य व्यसने केचित्सु-
स्वस्याभ्युदये तथा । यानं प्रशंसन्ति बुधाः स्वबलस्योद्धता तथा ॥" इयादिशास्त्र
च तत्त्वतोऽवबुध्य तत्कालं स्वानुकूलं यानकालं मन्वाना: बाणादयो राक्षसाः सुरैः
सह महते युद्धाय सन्नद्धाः सन्तः तदानीमेव निर्गत्यामरपुरीमावत्रुरित्यादि वक्तुं
तदीय निर्गमनप्रकारं वर्णयितुमारभते ॥ अथेति ॥ अथ दुर्वाससो निर्गमनानन्तरं,
तदानीमेव गूढाः वेषान्तरच्छन्नाः । "संवृतौ गूढगूहितौ " इति निघण्टुसारे ।
निहिताः वर्तमानाः, ये चाराः, तैर्निवेदितः यः तापसशापवृत्तान्तः, तत्समाकर्णनेन
 
1.
 
स्वयमपीत्यादि विशेषणस्य व्याख्याप्रन्थो लुप्तः गवेषणीयः ।
 
2. "जागु = निद्राक्षये " – अयं धातुः आदादिकः परस्मैपदी रुदादिभ्यः पञ्चभ्यः
अनन्तरं पठितः ॥