2023-08-04 10:25:13 by Bharadwajraki
This page has been fully proofread twice.
मन्दाक्षशबळकटाक्षसहस्रनियमितव्यापारम् अमुखरमुरजमनाहतपटहम् अक्वणितवीणावादित्रम् अवसन्नकिन्नरीगानम् अप्रवृत्तरम्भादिनृत्तसंरम्भम् अवसितवैताळिकलोaककोलाहलम् अप्रसक्तवेत्रिहाहारवम्b अनाशङ्कितभटसिंहनादम् अस्तङ्गतान्योन्यसङ्कथम् असम्भावितपीठमर्दविदूषकालापम्, अश्वहेषितेऽपि सातङ्कसादिकुम्, अङ्घ्रिविन्यासशब्देऽपि सापराधसौविदल्लजनम्, अपनीतमातङ्गघण्टावलयम्, आबद्धमिव मूकमिव बधिरमिव मुग्धमिव प्रसुप्तमिव विकलमिव शून्यमिव विन्यस्तमिव चित्रफलके,
[Ccommentary]
पतितः, निर्जिहानः[^१] विनिर्गतः, राकाशशाङ्क इव पूर्णिमाचन्द्र इव स्थितः । सुरपतिः, अभितः प्रसार्यमाणाः प्रसारिता, ये विषादमन्दाक्षाभ्यां व्यसनलज्जाभ्यां शबळा मिश्राः, कटाक्षाः, तेषां सहस्रेण, नियमितः निगृहीतः व्यापारो यस्य तत् । अत एव अमुखरः अध्वनन्, मुरजो मृदङ्गो, यस्य तत्तथोक्तम् । अनाहतः अताडितः, पटहो ढक्का, यस्य तत्तथोक्तम् । अक्वणितं अस्वनितं, वीणा वादित्रं आतोद्यं यस्मिंस्तत्तथाभूतम् । "वादित्रातोद्यनामकम्" इत्यमरः । अवसन्नं शान्तं, किन्नरीगानं यस्मिन् तत् । अप्रवृत्तः अप्रसक्तः, रम्भादिनृत्तसंरम्भः त्वरोपक्रमो वा यस्य तत् । अवसितः शान्तः, वैताळिकानां वन्दिनां, कोलाहलो यस्मिंस्तत्तथाभूतम् । अप्रसक्तः वेत्रिणां कशाहस्तानां हाहारवो यस्मिंस्तत्तथाभूतम् । अनाशंसितः अनपेक्षितः, भटानां सिंहनादो यस्मिंस्तत्तथाभूतम् । अस्तङ्गता, अन्योन्यस्य संकथा प्रस्तावो, यस्मिंस्तत्तथाभूतम् । असम्भावितः अबहुमानितः, पीठमर्दविदूषकयोः । पीठमर्दविदूषकलक्षणं तु विद्यानाथेनोक्तम् । "किञ्चिदूनः पीठमर्दो, हास्यप्रायो विदूषकः" इति । हास्यैकजीविनोः प्रभुसमीपचारिणोः आलापो वचः यस्मिंस्तत्तथाभूतम् । अश्वानां हेषितेऽपि ध्वनावपि, आतङ्केन भयेन वर्तन्त इति सातङ्कानि, सादिनां अश्वारोहाणां कुलानि यस्मिन् तत्तथाभूतम् । अङ्घ्रीणां विन्यासेन यः शब्दः तस्मिन्नपि । "पदङ्घ्रिश्चरणोऽस्त्रियाम्" इत्यमरः । अपराधेन सह वर्तन्त इति तथाभूताः सौविदल्ला एव जनाः यस्मिन्तत्तथाभूतम्। "सौविदल्लाः कञ्चुकिनः " इत्यमरः । अपनीतौ मातङ्गानां घण्टावलयौ यस्मिंस्तत् । "कटकं वलयोऽस्त्रियाम्" इत्यमरः । अत एव आबद्ध
a. व्याख्यात्रा इदं लोकपदं नादृतम् । b. "अनाशंसित" -- व्याख्यापाठः ।
[^१] "ओहाङ् - गतौ" -- इत्यस्मात् जौहोत्यादिकात् धातोः छित्वादात्मनेपदिनः निरुपसृष्टात् लटः शानचि निर्जिहान इति रूपम् ॥
[