2023-07-12 10:52:00 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  ४२
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  मन्दाक्षशबळकटाक्षसहस्रनियमितव्यापारम् अमुखरमुरजमनाहतपटहम्
  
  
  
    अक्वणितवीणावादित्रम् अवसन्नकिन्नरीगानम् अप्रवृत्तरम्भादिनृत्तसंरम्भम्
  
  
  
   अवसितवैताळिकलो'aककोलाहलम् अप्रसक्तवेत्रिहाहारवम्b अनाशङ्कितभट-
  
  
  
  सिंहनादम् अस्तङ्गतान्योन्यसङ्कथम् असम्भावितपीठमर्द विदूषकालापम्,
  
  
  
   अश्वहेषितेऽपि सातङ्कसादिकुम्, अघिङ्घ्रिविन्यासशब्देऽपि सापराधसौवि-
  
  
  
  दल्लजनम्, अपनीतमातङ्गघण्टावलयम्, आबद्धमिव मृमूकमिव बधिरमिव
  
  
  
   मुग्धमिव प्रसुप्तमिव विकलमिव शून्यमिव विन्यस्तमिव चित्रफलके,
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  पतितः, निर्जिहानः'[^१] विनिर्गतः, राकाशशाङ्क इव पूर्णिमाचन्द्र इव स्थितः । सुरपतिः,
  
  
  
   अभितः प्रसार्यमाणाः प्रसारिता, ये विषादमन्दाक्षाभ्यां व्यसनलज्जाभ्यां शबळा
  
  
  
   मिश्राः, कटाक्षाः, तेषां सहस्रेण, नियमितः निगृहीतः व्यापारो यस्य तत् । अत
  
  
  
   एव अमुखरः अध्वनन्, मुरजो मृदङ्गो, यस्य तत्तथोक्तम् । अनाहत:तः अताडित:,
  
  
  
  तः, पटहो ढक्का, यस्य तत्तथोक्तम् । अक्वणितं अस्वनिततं, वीणा वादित्रं आतोद्यं
  
  
  
   यस्मिंस्तत्तथाभूतम् । "वादित्रातोद्यनामकम्" इत्यमरः । अवसन्नं शान्तं, किन्नरी -
  
  
  
  गानं यस्मिन् तत् । अप्रवृत्तः अप्रसक्तः, रम्भादिनृत्तसंरम्भः त्वरोपक्रमो वा
  
  
  
   यस्य तत् । अवसितः शान्तः, वैताळिकानां वन्दिनां, कोलाहलो यस्मिंस्तत्तथा-
  
  
  
  भूतम् । अप्रसक्तः वेत्रिणां कशाहस्तानां हाहारवो यस्मिंस्तत्तथाभूतम् ।
  
  
  
   अनाशंसितः अनपेक्षितः, भटानां सिंहनादो यस्मिंस्तत्तथाभूतम् । अस्त-
  
  
  
  ङ्गता, अन्योन्यस्य संकथा प्रस्तावो, यस्मिंस्तत्तथाभूतम् । असम्भावितः अबहुमा-
  
  
  
  नितः, पीठमर्दविदूषकयोः। पीठमर्दविदूषकलक्षणं तु विद्यानाथेनोक्तम् । "किञ्चि-
  
  
  
  दून:नः पीठमर्दो, हास्यप्रायो विदूषक: कः" इति । हास्यैकजीविनोः प्रभुसमीपचारिणोः
  
  
  
   आलापो वचः यस्मिंस्तत्तथाभूतम् । अश्वानां हेषितेऽपि ध्वनावपि, आतङ्केन भयेन
  
  
  
   वर्तन्त इति सातकानि, सादिनां अश्वारोहाणां कुलानि यस्मिन् तत्तथाभूतम् ।
  
  
  
   अङ्घ्रीणां विन्यासेन यः शब्दः तस्मिन्नपि । "पदङ्घ्रिश्चरणोऽस्त्रियाम्" इत्य-
  
  
  
  मरः । अपराधेन सह वर्तन्त इति तथाभूताः सौविदल्ला एव जना: यस्मिन्
  
  
  
  नाः यस्मिन्तत्तथाभूतम्। "सौविदल्लाः कञ्चुकिन:नः " इत्यमरः । अपनीतौ मातङ्गानां
  
  
  
   घण्टावलयौ यस्मिंस्तत् । "कटकं वलयोऽस्त्रियाम्" इत्यमरः । अत एव आबद्ध
  
  
  
  
  
  
  
   
  
  
  
  a. व्याख्याता इदं लोकपदं नादृतम् । b. "अनाशंसित" -- व्याख्यापाठः ।
  
  
  
  
  
  
  
   
  
  
  
  [^१] "ओहाङ् - गतौ " –इत्यस्मात् जौहोत्यादिकात् धातोः खिछित्वादात्मनेपदिन:
  
  
  
  नः निरुपसृष्टात् लट:टः शानचि निर्जिहान इति रूपम् ॥
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  66