This page has not been fully proofread.

४२
 
नीलकण्ठविजये सव्याख्याने
 
,
 
,
 
मन्दाक्षशबळकटाक्षसहस्रनियमितव्यापारम् अमुखरमुरजमनाहतपटहम्
अक्वणितवीणावादित्रम् अवसन्नकिन्नरीगानम् अप्रवृत्तरम्भादिनृत्तसंरम्भम्
अवसितवैताळिकलो'ककोलाहलम् अप्रसक्तवेत्रिहाहारवम् अनाशङ्कितभट-
सिंहनादम् अस्तङ्गतान्योन्यसङ्कथम् असम्भावितपीठमर्द विदूषकालापम्,
अश्वहेषितेऽपि सातङ्कसादिकुम्, अघिविन्यासशब्देऽपि सापराधसौवि-
दल्लजनम्, अपनीतमातङ्गघण्टावलयम्, आबद्धमिव मृकमिव बधिरमिव
मुग्धमिव प्रसुप्तमिव विकलमिव शून्यमिव विन्यस्तमिव चित्रफलके,
पतितः, निर्जिहानः' विनिर्गतः, राकाशशाङ्क इव पूर्णिमाचन्द्र इव स्थितः । सुरपतिः,
अभितः प्रसार्यमाणाः प्रसारिता, ये विषादमन्दाक्षाभ्यां व्यसनलज्जाभ्यां शबळा
मिश्राः, कटाक्षाः, तेषां सहस्रेण, नियमितः निगृहीतः व्यापारो यस्य तत् । अत
एव अमुखरः अध्वनन्, मुरजो मृदङ्गो, यस्य तत्तथोक्तम् । अनाहत: अताडित:,
पटहो ढक्का, यस्य तत्तथोक्तम् । अक्वणितं अस्वनित, वीणा वादित्रं आतोद्यं
यस्मिंस्तत्तथाभूतम् । "वादित्रातोद्यनामकम्" इत्यमरः । अवसन्नं शान्तं, किन्नरी -
गानं यस्मिन् तत् । अप्रवृत्तः अप्रसक्तः, रम्भादिनृत्तसंरम्भः त्वरोपक्रमो वा
यस्य तत् । अवसितः शान्तः, वैताळिकानां वन्दिनां, कोलाहलो यस्मिंस्तत्तथा-
भूतम् । अप्रसक्तः वेत्रिणां कशाहस्तानां हाहारवो यस्मिंस्तत्तथाभूतम् ।
अनाशंसितः अनपेक्षितः, भटानां सिंहनादो यस्मिंस्तत्तथाभूतम् । अस्त-
ङ्गता, अन्योन्यस्य संकथा प्रस्तावो, यस्मिंस्तत्तथाभूतम् । असम्भावितः अबहुमा-
नितः, पीठमर्दविदूषकयोः। पीठमर्दविदूषकलक्षणं तु विद्यानाथेनोक्तम् । "किञ्चि-
दून: पीठमर्दो, हास्यप्रायो विदूषक: " इति । हास्यैकजीविनोः प्रभुसमीपचारिणोः
आलापो वचः यस्मिंस्ततथाभूतम् । अश्वानां हेषितेऽपि ध्वनावपि, आतङ्केन भयेन
वर्तन्त इति सातकानि, सादिनां अश्वारोहाणां कुलानि यस्मिन् तत्तथाभूतम् ।
अङ्घ्रीणां विन्यासेन यः शब्दः तस्मिन्नपि । "पदङ्घ्रिश्चरणोऽस्त्रियाम्" इत्य-
मरः । अपराधेन सह वर्तन्त इति तथाभूताः सौविदल्ला एव जना: यस्मिन्
तत्तथाभूतम्। "सौविदल्लाः कञ्चुकिन: " इत्यमरः । अपनीतौ मातङ्गानां
घण्टावलयौ यस्मिंस्तत् । "कटकं वलयोऽस्त्रियाम्" इत्यमरः । अत एव आबद्ध
a. व्याख्याता इदं लोकपदं नादृतम् । b. "अनाशंसित" व्याख्यापाठः ।
ओहाङ् - गतौ " –इत्यस्मात् जौहोत्यादिकात् धातोः खित्वादात्मनेपदिन:
निरुपसृष्टात् लट: शानचि निर्जिहान इति रूपम् ॥
 
"
 
1.
 
66