This page has been fully proofread twice.

येयं त्रैलोक्यराज्यश्रीस्त्वदालम्बेन चेष्टते ।
सैवाद्य त्वदमित्राणां वशमापद्यतामिति ॥ २७ ॥
 
आलम्ब्य दैन्यमसकृत्पद्योर्निपत्य
सम्प्रार्थितो मघवता स्तुवता ततोऽयम् ।
शापान्तमाह कथयन्निव लोकरीत्या
गोविन्द एव कुशलानि करिष्यतीति ॥ २८ ॥
 
तदनु यथागतं गते दुर्वाससि, तावता वैभवेन विनिर्गतोऽप्यतर्कितोपनततदीयशापसमुत्सारितोत्साहः, समग्रेण मण्डलेन निर्जिहानो राकाशशाङ्क इव राहुमुखे पतितः सुरपतिः, अभितः प्रसार्यमाणविषाद-
 
[Commentary]
 
कः पुमानपराधिनं न निगृह्णातीति भावः । शापप्रकारमेवाह । येति ॥ येयं प्रसिद्धा, त्रैलोक्यस्य त्रिभुवनस्य, राज्येनाधिपत्येन, वर्तमाना श्रीः, त्वमेव आलम्बः आधारः तेन, चेष्टते वर्तते, सैव श्रीः, अद्य त्वदमित्राणां तव शत्रूणां असुराणां, वशं स्वीयत्वम् । "स्वीयतायां वशः पुंसि वशा तु करिणी स्त्रियाम्" इति निघण्टुसारे । आपद्यतां प्राप्नोतु इति । "अपराधानुगुणो दण्डः" इति शास्त्रादिति भावः । तदनु प्रणिपतनप्रार्थनादिभिः प्रसन्नो भगवान् मुनिरिन्द्रमनुजग्राहेत्याह ॥ आलम्ब्येति ॥ ततः, स्तुवता स्तुतिं कुर्वता, मघवता इन्द्रेण, दैन्यं दीनत्वमालम्ब्य, असकृत्पदयोर्निपत्य निपतनं कृत्वा, सम्प्रार्थितोऽयं मुनिः, लोकरीत्या कुशलं कथयन्निव, गोविन्द एव, कुशलानि क्षेमाणि । "कुशलं
क्षेममस्त्रियाम्" इत्यमरः । करिष्यतीति शापान्तं शापस्य अन्तमवसानम्, आह आचख्यौ । को वा साधुर्दीनं दुःखितं नानुगृह्णातीति भावः । दूर्वासा येन प्रकारेणागतः तेन प्रकारेणैव स्वावासं गतः, इन्द्रस्तु न तथेत्याह ॥ तदन्विति ॥ तदनु, दूर्वाससि, यथागतं [^१]स्वागमनमनतिक्रम्य, गते प्रस्थिते[^२] सति । तावता पूर्वानीतेन कृत्स्नेन, वैभवेन उत्सवेन ऐश्वर्येण वा, विनिर्गतः निष्क्रान्तः, गङ्गातीरादिति शेषः । तथाभूतोऽपि, अतर्कितं अशङ्कितं यथा तथा, उपनतः प्राप्तः, यस्तदीयशापः, तेनोत्सारितः निष्कासितः, उत्साहो यस्य सः । अत एव समग्रमण्डलेन राहुमुखे
 
[^१] पदार्थानतिवृत्तिरूपयथार्थेऽव्ययीभावः, विधिमनतिक्रम्य = यथाविधि इतिवत् ॥

[^२] "यस्य च भावेन भावलक्षणम्" (पा. सू. २.३.३७) -- इति सूत्रेण सति सप्तमी ।