This page has been fully proofread once and needs a second look.

प्रथमाश्वासः
 
येयं त्रैलोक्यराज्य श्री स्त्वदालम्बेन चेष्टते ।

सैवाद्य त्वदमित्राणां वशमापद्यतामिति ॥ २७ ॥

 
आलम्ब्य दैन्यमसकृत्पद्योर्निपत्य
 

सम्प्रार्थितो मघवता स्तुवता ततोऽयम् ।

शापान्तमाह कथयन्निव लोकरीत्या
 
४१
 

गोविन्द एव कुशलानि करिष्यतीति ॥ २८ ॥

 
तदनु यथागतं गते दुर्वाससि, तावता वैभवेन विनिर्गतोऽप्यत-
किं
र्कितोपनततदीयशापसमुत्सारितोत्साहः, समग्रेण मण्डलेन निर्जिहानो
राकाशशाङ्क इव राहुमुखे पतितः सुरपतिः, अभितः प्रसार्यमाणविषाद-

 
[Commentary]
 
कः पुमानपराधिनं न निगृह्णातीति भावः । शापप्रकारमेवाह । येति ॥ येयं
प्रसिद्धा, त्रैलोक्यस्य त्रिभुवनस्य, राज्येनाधिपत्येन, वर्तमाना श्रीः, त्वमेव आलम्ब:
बः आधारः तेन, चेष्टते वर्तते, सैव श्रीः, अद्य त्वदमित्राणां तव शत्रूणां असुराणां,
वशं स्वीयत्वम् । "स्वीयतायां वशः पुंसि वशा तु करिणी स्त्रियाम्"
इति निघण्टुसारे। आपद्यतां प्राप्नोतु इति । "अपराधानुगुणो दण्ड : डः" इति शास्त्रा-
दिति भावः । तदनु प्रणिपतनप्रार्थनादिभिः प्रसन्नो भगवान् मुनिरिन्द्रमनु-
जग्राहेत्याह ॥ आलम्ब्येति ॥ ततः, स्तुवता स्तुतिं कुर्वता, मघवता इन्द्रेण,
दैन्यं दीनत्वमालम्ब्य, असकृत्पदयोर्निपत्य निपतनं कृत्वा, सम्प्रार्थितोऽयं मुनिः,
लोकरीत्या कुशलं कथयन्निव, गोविन्द एव, कुशलानि क्षेमाणि । "कुशलं

क्षेममस्त्रियाम्" इत्यमरः । करिष्यतीति शापान्तं शापस्य अन्तमवसानम्, आह
आचख्यौ । को वा साधुर्दीनं दुःखितं नानुगृह्णातीति भावः । दूर्वासा येन
प्रकारेणागतः तेन प्रकारेणैव स्वावासं गतः, इन्द्रस्तु न तथेत्याह ॥ तदन्विति ॥
तदनु, दूर्वाससि, यथागतं '[^१]स्वागमनमनतिक्रम्य, गते प्रस्थिते[^२] सति । तावता पूर्वा-
नीतेन कृत्स्नेन, वैभवेन उत्सवेन ऐश्वर्येण वा, विनिर्गतः निष्क्रान्तः, गङ्गातीरादिति
शेषः । तथाभूतोऽपि, अतर्कितं अशङ्कितं यथा तथा, उपनतः प्राप्तः, यस्तदीयशापः,
तेनोत्सारितः निष्कासितः, उत्साहो यस्य सः । अत एव समग्रमण्डलेन राहुमुखे
 
""
 
"
 
K
 
1.

 
[^१]
पदार्थानतिवृत्तिरूपयथार्थेऽव्ययीभावः, विधिमनतिक्रम्य -= यथाविधि इतिवत् ॥

[^२]
"यस्य च भावेन भावलक्षणम्" (पा. सू. 2२.३.३७) -3-37 ) - इति सूत्रेण सति सप्तमी ।
 
2.
 
N – 6