2023-08-03 10:30:48 by Bharadwajraki
This page has been fully proofread twice.
वीरभद्र इव क्रुद्धे वीरमाहेश्वरे मुनौ ।
इतिकर्तव्यतामूढमिन्द्रमैक्षन्त देवताः ॥ २५ ॥
तदनु च ।
यावत् सान्त्वयितुं तदन्तिकभुवं धावन्ति मन्दीभव-
त्काकुव्याकुलगद्गदस्तुतिवचोगुम्फा निलिम्पाः स्वयम् ।
तावद्देवपतिं शशाप कुटिलक्रूरभ्रमत्तारक-
भ्रूभङ्गव्यतिषङ्गदत्तभुवनातङ्को मुनिः शाङ्करः ॥ २६ ॥
[commentary]
कर्तरि लङ् । अप्रियकारिणं प्रति को वा न कुप्यतीति भावः । कोपलिङ्गस्य नेत्रारुणस्य धारणमात्रादेव इन्द्रस्त्वविवेकी संवृत्त इत्याह ॥ वीरेति ॥ वीरमाहेश्वरे वीरशैवे मुनौ, वीरभद्रे दक्षयज्ञान्तक इव, क्रुद्धे क्रोधवति, वीरभद्र इव स्थिते सतीति वार्थः । देवताः, इतिकर्तव्यतायां यथोचितव्यापारे, मूढं अज्ञम् । "अज्ञमूढयथाजात" इत्यमरः । इन्द्रं ऐक्षन्त दृष्टवन्तः । [^१]ईक्षतेः कर्तरि लङ् । निषिद्धकारिणः कस्य वा समुचितं भासत इति भावः । "यावदात्मबलं तावत्स्वामी रक्ष्यो भटोत्तमैः" इति न्यायात् स्वाम्यर्थं मुनिसान्त्वने प्रयतमानानां देवानां सत्वरगमनादिकं फलाय नाभूदित्याशयेनाह ॥ निलिम्पा इति ॥ निलिम्पाः सुराः, सान्त्वयितुं समाधातुं तस्य मुनेरन्तिकभुवं समीपभूमिम् । "उपकण्ठान्तिकाभ्यर्णाभ्यग्रा" इत्यमरः । काक्वा भयोत्पन्नविकारध्वनिना ।
काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः" इत्यमरः । व्याकुलानि सन्दर्भरहितानि, यानि गद्गदानि अविस्पष्टाक्षराणि, स्तुतिरूपाणि वचांसि, तेषां गुम्फो ग्रथनं येषां ते । यद्वा सर्वं गुम्फविशेषणम् । तथाभूताः सन्तः, यावद्धावन्ति गन्तारः[^२] । यावत्पुरानिपातयोर्भविष्यदर्थे लट् । कुटिले क्रूरे भ्रमती ये तारके, यश्च भ्रूभङ्गयोः भ्रूशकलयोः । "भङ्गः खण्डे पराजये" इति नानार्थमाला । व्यतिषङ्गो ग्रन्थिः, तेन दत्तो भुवनस्य आतङ्कः । "रुक्तापशङ्कास्वातङ्कः" इत्यमरः । भयं, यस्य तथाभूतः, शाङ्करः शिवभक्तः, मुनिः, देवपतिमिन्द्रं, शशाप अशपत् । [^३]शपतेः कर्तरि लिट् ।शक्तः
[^१] ऊष्मान्तेषु आत्मनेपदिषु नवमोऽयं भौवादिको धातुः "ईक्ष = दर्शने" इति ॥
[^२] लुङन्तोऽयं प्रथमपुरुषबहुवचनान्तः ।
[^३] "शप = आक्रोशे" -- आक्रोशो विरुद्धानुध्यानम् -- इति भौवादिकः स्वरितेत् उभयपदी वहत्यन्तेषु सप्तमो धातुः ।
इतिकर्तव्यतामूढमिन्द्रमैक्षन्त देवताः ॥ २५ ॥
तदनु च ।
यावत् सान्त्वयितुं तदन्तिकभुवं धावन्ति मन्दीभव-
त्काकुव्याकुलगद्गदस्तुतिवचोगुम्फा निलिम्पाः स्वयम् ।
तावद्देवपतिं शशाप कुटिलक्रूरभ्रमत्तारक-
भ्रूभङ्गव्यतिषङ्गदत्तभुवनातङ्को मुनिः शाङ्करः ॥ २६ ॥
[commentary]
कर्तरि लङ् । अप्रियकारिणं प्रति को वा न कुप्यतीति भावः । कोपलिङ्गस्य नेत्रारुणस्य धारणमात्रादेव इन्द्रस्त्वविवेकी संवृत्त इत्याह ॥ वीरेति ॥ वीरमाहेश्वरे वीरशैवे मुनौ, वीरभद्रे दक्षयज्ञान्तक इव, क्रुद्धे क्रोधवति, वीरभद्र इव स्थिते सतीति वार्थः । देवताः, इतिकर्तव्यतायां यथोचितव्यापारे, मूढं अज्ञम् । "अज्ञमूढयथाजात" इत्यमरः । इन्द्रं ऐक्षन्त दृष्टवन्तः । [^१]ईक्षतेः कर्तरि लङ् । निषिद्धकारिणः कस्य वा समुचितं भासत इति भावः । "यावदात्मबलं तावत्स्वामी रक्ष्यो भटोत्तमैः" इति न्यायात् स्वाम्यर्थं मुनिसान्त्वने प्रयतमानानां देवानां सत्वरगमनादिकं फलाय नाभूदित्याशयेनाह ॥ निलिम्पा इति ॥ निलिम्पाः सुराः, सान्त्वयितुं समाधातुं तस्य मुनेरन्तिकभुवं समीपभूमिम् । "उपकण्ठान्तिकाभ्यर्णाभ्यग्रा" इत्यमरः । काक्वा भयोत्पन्नविकारध्वनिना ।
काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः" इत्यमरः । व्याकुलानि सन्दर्भरहितानि, यानि गद्गदानि अविस्पष्टाक्षराणि, स्तुतिरूपाणि वचांसि, तेषां गुम्फो ग्रथनं येषां ते । यद्वा सर्वं गुम्फविशेषणम् । तथाभूताः सन्तः, यावद्धावन्ति गन्तारः[^२] । यावत्पुरानिपातयोर्भविष्यदर्थे लट् । कुटिले क्रूरे भ्रमती ये तारके, यश्च भ्रूभङ्गयोः भ्रूशकलयोः । "भङ्गः खण्डे पराजये" इति नानार्थमाला । व्यतिषङ्गो ग्रन्थिः, तेन दत्तो भुवनस्य आतङ्कः । "रुक्तापशङ्कास्वातङ्कः" इत्यमरः । भयं, यस्य तथाभूतः, शाङ्करः शिवभक्तः, मुनिः, देवपतिमिन्द्रं, शशाप अशपत् । [^३]शपतेः कर्तरि लिट् ।शक्तः
[^१] ऊष्मान्तेषु आत्मनेपदिषु नवमोऽयं भौवादिको धातुः "ईक्ष
[^२] लुङन्तोऽयं प्रथमपुरुषबहुवचनान्तः ।
[^३] "शप