2023-07-12 10:32:59 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  ४०
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
  वीरभद्र इव क्रुद्धे वीरमाहेश्वरे मुनौ ।
  
  
  
  
  
  
  
  इतिकर्तव्यतामूढमिन्द्रमैक्षन्त देवताः ॥ २५ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  तदनु च ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  यावत् सान्त्वयितुं तदन्तिकभुवं धावन्ति मन्दीभव-
  
  
  
  
  
  
  
  त्काकुव्याकुलगद्गदस्तुतिवचोगुम्फा निलिम्पाः स्वयम् ।
  
  
  
  
  
  
  
  तावद्देवपतितिं शशाप कुटिलकूक्रूरभ्रमत्तारक-
  
  
  
  
  
  
  
  भ्रूभङ्गव्यतिषङ्गदत्तभुवनातङ्को मुनिः शाङ्करः ॥ २६ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  कर्तरि लङ् । अप्रियकारिणं प्रति को वा न कुप्यतीति भावः । कोपलिङ्गस्य
  
  
  
   नेत्रारुणस्य धारणमात्रादेव इन्द्रस्त्वविवेकी संवृत्त इत्याह ॥ वीरेति ॥ वीरमाहेश्वरे
  
  
  
   वीरशैवे मुनौ, वीरभद्रे दक्षयज्ञान्तक इव, क्रुद्धे क्रोधवति, वीरभद्र इव स्थिते
  
  
  
   सतीति वार्थः । देवताः, इतिकर्तव्यतायां यथोचितव्यापारे, मूढं अज्ञम् । "अज्ञ-
  
  
  
  मूढयथाजात" इत्यमरः । इन्द्रं ऐक्षन्त दृष्टवन्तः । [^१]ईक्षते:तेः कर्तरि लङ् ।
  
  
  
   निषिद्धकारिणः कस्य वा समुचितं भासत इति भावः । "यावदात्मबलं तावत्
  
  
  
  स्वामी रक्ष्यो भटोत्तमैः" इति न्यायात् स्वाम्यर्थं मुनिसान्त्वने प्रयतमानानां देवानां
  
  
  
   सत्वरगमनादिकं फलाय नाभूदित्याशयेनाह ॥ निलिम्पा इति ॥ निलिम्पाः
  
  
  
   सुराः, सान्त्वयितुं समाधातुं तस्य मुनेरन्तिकभुवं समीपभूमिम् । "उपकण्ठान्ति-
  
  
  
  काभ्यर्णाभ्यप्ग्रा" इत्यमरः । काक्वा भयोत्पन्नविकारध्वनिना ।
  
  
  
  
  
  
  
  काकुः
  
  
  
   
  
  
  
  59
  
  
  
   
  
  
  
   स्त्रियां विकारो यः शोकभी त्यादिभिर्ध्वनेः " इत्यमरः । व्याकुलानि सन्दर्भरहि-
  
  
  
  तानि, यानि गद्गदानि अविस्पष्टाक्षराणि, स्तुतिरूपाणि वचांसि, तेषां गुम्फो ग्रथनं
  
  
  
   येषां ते । यद्वा सर्वं गुम्फविशेषणम् । तथाभूताः सन्तः, यावद्धावन्ति गन्तार: ।
  
  
  
  रः[^२] । यावत्पुरानिपातयोर्भविष्यदर्थे लट् । कुटिले कूक्रूरे भ्रमती ये तारके, यश्च भ्रूभङ्गयोः
  
  
  
   भ्रूशकल्लयोः । " भङ्गः खण्डे पराजये " इति नानार्थमाला । व्यतिषङ्गो प्ग्रन्थिः,
  
  
  
   तेन दत्तो भुवनस्य आतङ्कः । "रुक्तापशङ्कास्वातङ्कः" इत्यमरः । भयं, यस्य तथाभूतः,
  
  
  
   शाङ्करः शिवभक्त:तः, मुनि:,
  
  
  
  निः, देवपतिमिन्द्रं, शशाप अशपत् । [^३]शपते:तेः कर्तरि लिट् । शक्तः
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] ऊष्मान्तेषु आत्मनेपदिषु नवमोऽयं भौवादिको धातु:तुः "ईक्ष = दर्शने" इति ॥
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] लुडङन्तोऽयं प्रथमपुरुषबहुवचनान्तः ।
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] "शप- = आक्रोशे"— -- आक्रोशो विरुद्धानुध्यानम् -- इति भौत्रावादिकः स्वरितेत्
  
  
  
   उभयपदी वहत्यन्तेषु सप्तमो धातुः ।