This page has been fully proofread once and needs a second look.

चान्ततः, स्कन्ध एव सिन्धुरस्य निवेशयामास । निवेशितमात्रा च सा निसर्गनिरवग्रहेण वेतण्डेन शुण्डयाकृष्य निष्पिपिषे ।
 
पश्यन् पदाग्रमृदितां महता गजेन
मालां प्रसादपरिपाकमयीं मृडान्याः ।
हस्तेन हस्तमभिहत्य स नित्यकोपः
कोपारुणं मुनिरधारयदक्षिकोणम् ॥ २४ ॥
 
[commentary]
 
हेळनमसूर्क्षणम्" इत्यमरः । पश्यत एव महर्षेः पश्यन्तं [^१]महर्षिमनादृत्येत्यर्थः । "षष्ठी चानादरे" (पा. सू. २.३.३८) इति षष्ठी । मकुटतटं शिरःप्रदेशं, अनुपनीय अप्रापय्य, अन्ततः अन्ते, सार्वविभक्तिकस्तसिः । अनाघ्राय आघ्राणमकृत्वा, सिन्धुरस्य गजस्य, स्कन्ध एव भुजशिरस्येव, निवेशयामास प्रचिक्षेपेत्यर्थः । विधिप्रातिकूल्ये तादृशोऽपि प्रमाद्यतीति भावः । सात्त्विकतमस्येन्द्रस्यैव प्रमादे सति तामसतमस्य गजस्य प्रमादः कियानित्याशयेन तत्कृतं दौश्शील्यमाह ॥ निवेशितेति ॥ निवेशितमात्रापि न्यस्तमात्रा च, सा माला, निसर्गात् स्वभावात्, निरवग्रहेण दुर्निरोघेन, वेतण्डेन गजेन, शुण्डया करेण, आकृष्य निष्पिपिषे । पिषेः[^२] कर्मणि लिट् । स्वापराधं सहमानोऽपि मुनिः कालिकापराधं न सेह इत्याह ॥ पश्यन्निति ॥ महता गजेन,
पदाग्रेण, मृदितां चूर्णितां, मालां, मृडान्याः । "मृडानी चण्डिका" इत्यमरः । "इन्द्रवरुण"[^३] (पा.सू. ४.१.४९) इत्यादिना आनुक्, ङीष्प्रत्ययश्च । प्रसादस्य, परिणाममयीं परिपाकमयीं, पश्यन् जानन्, नित्यमनवरतं, कोपो यस्य स तथाभूतः । "नित्यानवरताजस्रम्" इत्यमरः । स मुनिर्हस्तेन हस्तमभिहत्य सन्ताड्य, कोपेनारुणं ताम्रं, अक्षिकोणं दृगञ्चलं, अधारयत् धृतवान् । [^४]धरतेर्ण्यन्तात्
 
[^१] "रुदत्ति रुदतो वा प्रावाजीत् -- रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः इतिवदिति भावः ॥ अनादराधिक्ये भावलक्षणे षष्ठी ॥ ज्ञाप्यज्ञापकभावः षष्ठ्यर्थः, धातोश्चानादरविशिष्टं प्रव्रजनमर्थः, तथा अत्रानादरविशिष्टं निवेशनं धात्वर्थः ॥
 
[^२] रुधादौ "अथ परस्मैपदिनः" इत्यारभ्य पठितेषु द्वादशसु धातुषु अयं "पिष्ऌ -- संचूर्णने" इति द्वितीयः । "भावकर्मणोः ।" (पा. सू. १.३.१३) इत्यात्मनेपदम् ॥
 
[^३] "इन्द्रवरणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्" (पा. सू. ४.१.४९) इति समग्रं सूत्रम् आदिपदेनाभिप्रैति ॥
 
[^४] "धृङ्=अवस्थाने" -- ध्रियते -- तौदादिकः "धृड्=अवध्वंसने" -- धरते ङीङतेषु ङित्सु पठितः ॥