2023-06-05 16:39:43 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
३९
चान्ततः, स्कन्ध एव सिन्धुरस्य निवेशयामास । निवेशितमात्रा
च सा निसर्गनिरवग्रहेण वेवण्डेन झुण्डयाकृष्य निष्पिपिषे ।
पश्यन् पदाग्रमृदितां महता गजेन
मालां प्रसादपरिपाकमयीं मृडान्याः ।
हस्तेन हस्तमभिहत्य स नित्यकोपः
कोपारुणं मुनिरधारयदक्षिकोणम् ॥ २४ ॥
हेळनमसूक्षणम्" इत्यमरः । पश्यत एव महर्षेः पश्यन्तं 'महर्षिमनादृत्येत्यर्थः ।
"षष्ठी चानादरे" (पा. सू. 2-3-38) इति षष्ठी । भकुटतटं शिरः प्रदेश, अनुपनीय
अप्रापय्य, अन्ततः अन्ते, सार्वविभक्तिकस्तसिः । अनाघ्राय आघ्राणमकृत्वा, सिन्धु-
रस्य गजस्य, स्कन्ध एव भुजशिरस्येव, निवेशयामास प्रचिक्षेपेत्यर्थः । विधिप्रातिकूल्ये
तादृशोऽपि प्रमाद्यतीति भावः । सात्त्विकतमस्येन्द्रस्यैव प्रमादे सति तामसतमस्य
गजस्य प्रमादः कियानित्याशयेन तत्कृतं दौश्शील्यमाह ॥ निवेशि ते ति ॥ निवेशित-
मात्रापि न्यस्तमात्रा च, सा माला, निसर्गात् स्वभावात्, निरवग्रहेण दुर्निरोघेन,
वेतण्डेन गजेन, शुण्डया करेण, आकृष्य निष्पिपिषे । पिषे: 2 कर्मणि लिट् । स्वापराधं
सहमानोऽपि मुनिः कालिकापराधं न सेह इत्याह ॥ पश्यन्निति महता गजेन,
पदाग्रेण, मृदितां चूर्णितां, मालां, मृडान्याः । "मृडानी चण्डिका" इत्यमरः ।
"इन्द्रवरुण ) 3 ( पा. सू. 4-1-49) इत्यादिना आनुक्, ङीष्प्रत्ययश्च । प्रसादस्य,
परिणाममयीं परिपाकमयीं, पश्यन् जानन्, नित्यमनवरतं, कोपो यस्य स तथा-
भूतः । "नित्यानवरताजस्रम् " इत्यमरः । स मुनिर्हस्तेन हस्तमभिहत्य सन्ताब्य,
कोपेनारुणं ताम्रं, अक्षिकोणं हगञ्चलं, अधारयत् धृतवान् । 'धरतेर्ण्यन्तात्
1. "रुदत्ति रुदतो वा प्रावाजीत् – रुदन्तं पुत्रादिकमनादृत्य संन्यस्सवानित्यर्थः
इतिवदिति भावः ॥ अनादरा धिक्ये भावलक्षणे षष्ठीं ॥ ज्ञाप्यज्ञापकभावः षष्ठ्यर्थः,
घातो खानादर विशिष्टं प्रव्रजनमर्थः, तथा अत्रानादरविशिष्टं निवेशनं धात्वर्थः ॥
2. रुघादौ " अथ परस्मैप दिन : " इत्यारभ्य पठितेषु द्वादशसु धातुषु अयं
"पिष्ऌ–संचूर्णने" इति द्वितीयः । "भावकर्मणोः ।" (पा. सू. 1-3-13) इत्यात्मनेपदम् ॥
3. "इन्द्रवरणभवशर्वरुद्र मृडहिमारण्ययवयवनमातुलाचार्याणामानुकू" (पा. सू.
4-1-49) इति समग्र सूत्रम् आदिप देनाभिप्रैति ॥
">
4. "धृङ् = अवस्थाने प्रियंते - तौदादिकः "धृड्= अवध्वंसने" - धरते
डीङतेषु कित्सु पठितः ॥